Monday, November 17, 2025

A Study of Ratnaprabha – 40

 

 A Study of Ratnaprabha – 40

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम् 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO


....गताङ्कादग्रे....

-: प्राभाकरमतखण्डनम् :-

अत्र भगवत्पादा: “औपनिषदस्य पुरुषस्य अनन्यशेषत्वात्” इत्यादिवाक्यै: स्वसिद्धान्तं प्रदर्शयन्ति (ब्रह्मसूत्रशांकरभाष्यम्-172)|| अत्र रत्नप्रभाकार:|| तथाहि:- अज्ञातस्य फलस्वरूपस्यात्मन: उपनिषदेकवेद्यस्या कार्यशेषत्वात् कृत्स्नवेदस्य कार्यपरत्वमसिद्दम् (ब्रह्मसूत्रशांकरभाष्यरत्नप्रभा-172) इत्यादि ||  अत्र सिद्धान्तसारांशस्तावदयम् || तथा हि:-लिङ्गाद्यध्याहारं विनाsपि “ सप्तद्वीपा वसुमती” “राजाsसौ गच्छति” “ पुत्रस्ते जात:” “ कन्या ते गर्भिणी जाता” “ रज्जुरियं नाsयं सर्प:” इत्यादिवाक्येभ्योsपि लिङ्गाद्यर्थ विषयकोपस्थितरहितस्याsपि  पुरुषस्या sर्थाsवबोधो जायते, तेन हर्षविषादा: लोके सर्वे sनुभवन्तीति सर्वेषामनुभवसिद्ध: एव  || एवं सर्वानुभवसिद्धमपलप्य सर्वत्राsपि कार्यपरत्वमेवेति वदतां प्राभाकराणां मतं निरुपपत्तिकं प्रतिभाति   ||      क्रियाप्रयोजन साधनत्वमात्रेण क्रियापरत्वमेव, क्रियापरत्वमेवेति वचनं न सार्वत्रिकं भवितुमर्हति || रज्जुपिण्डे सर्पभ्रान्तिमत: भयकंपादिकं चाsनुभवत: पुरुषस्य “नाsयं सर्प:  किन्तु रज्जुरेव” इति आप्तेन रज्जुस्वरूपे उच्यमाने तत: रज्जुस्वरूपं ज्ञात्वा सर्पभ्रान्तिं जहाति तत्परयुक्त: भयकंपादिकञ्च जहातीति लोकेsनुभवसिद्धमेव || तत्र लिङ्आद्य नुसन्धानं वा तदर्थकोपस्थितिर्वा नैवापेक्यते || एवं नित्यशुद्धबुद्धमुक्तस्वभावे, निर्विशेषे, नित्यस्वप्रकाशानन्दब्रह्मणि तत्त्वमसी त्युपदिश्यमाने अनाद्यविद्या तद्वासनाकर्मकरणादिप्रयुक्तं ब्रह्माsपरनाम्नि परमात्मनि परिकल्पितां जीवभ्रान्तिं तत्त्वमसीतिमहावाक्योपदेशजन्यसाक्षात्कारेण जहाति || तन्मूलभूताsविद्यासहितां च जहाति || एवं च तत्र लिङ्ङ्आदीनामपेक्षा न जन्म शतेनाsपि कल्पयितुं शक्या || अपि च कर्माsन्यत् ज्ञानमन्यत् तयो: सर्वधा समुच्चय: न संभवत्येव || स्थितिगत्यो: विरुद्धत्वात्,  ‘नाsहं कर्ता’ ‘नाsहं भोक्ता किन्तु सच्चिदानन्दस्वरूप’ एवेति ज्ञानं, अहं कर्ता  अहं भोक्ता एतत्कर्म मया कर्तव्यम् एतत्फलं च मया भोक्तव्यम् इत्यादि आभिमानिकज्ञानं चैकस्यैकदा न संभवत: ||

                   ज्ञानं च वस्तु तन्त्रम् || तत्र ‘घटं पश्य’ इत्यत्र घटे चक्षु: यदा यदा निक्षिपति तदा तदा सहस्रसंख्याका: आप्ता: अपि तं पटं जानीहि इति वदन्तोsपि घटं पटत्वेन ज्ञातुं न शक्नोत्येव || तत्र द्रष्टु: घटविषयकज्ञानमेव जायते न पटविषयकं ज्ञानम् || एतादृशाभिप्रायमेव मनसि कृत्वा “ तत्र  लिङ्ङ्आदय: श्रूयमाणा: अपि कुण्ठीभवन्त्युपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यवत्” इत्यभिहितं भगवत्पादै: ||                                    

एवञ्च सर्वानर्थनिवृत्तिरूपे महति प्रयोजनेsवगम्यमाने वेदान्तानां कार्यपरत्वेनैव प्रामाण्यं न सिद्धपरत्वेनेति वचनं साहसमात्रम् ||

किञ्च कृत्स्नस्य वेदस्य कार्यपरत्वं वदतां प्राभाकरमतम् एवं पूर्वपक्षीक्रियते रत्नप्रभाकरै: || तथा हि :- ब्रह्मण: नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वं , अत्र वेदान्तेषु तस्याभानात् अथवा कार्यशेषत्वात्  

किं वा लोकसिद्धत्वात् आहोस्वित् मानान्तर विरोधात् इत्यादि ||

तत्राद्य: न घटते || तथाहि:- ब्रह्मात्मनो: अभिन्नत्वात् , आत्मन: प्रत्याख्यातुमशक्यत्वात् , ब्रह्मण: नास्तित्वं नोपपद्यते || किञ्च आत्मन: निराकरणमसाध्यमेव || तदुक्तं भगवत्पादै: “य एव हि निराकर्ता तस्यैवाsत्मत्वात्” इत्यादि ||

अपि च सर्वा: उपनिषद: मुक्तकण्ठं ब्रह्मैव प्रतिपादयन्ति वेदान्तेषु तस्याsभानादिति द्वितीयोऽपि परास्तो भवति ||

तथैव उत्पाद्यादि चतुर्विधद्रव्यविलक्षणत्वात् ब्रह्मण: , तस्य कार्यशेषत्वमपि नोपपद्यते ||

तथैव , यं तीर्थकारा: अपि न जानन्ति तस्य अलौकिकत्वं किमु वाच्यमिति ब्रह्मण: लोक सिद्धताsपि निराक्रियते ||

एवमेव, ब्रह्मण: केषाञ्चिद्वादिनां प्रमाणेन युक्त्या वा  अगम्यत्वान्न  मानान्तर विरोधित्वं तस्य || तथा च सर्वाभिरुपनिषद्भि:

नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावस्यात्मन: प्रतिपाद्यमानत्वात् भूतवस्तुपरो वेदभागो नाsस्तीति प्राभाकरोक्तं वचनं साहस मात्रमेवेति भगवत्पादानामाशयो व्याख्यात: रत्नप्रभाकारै: ||

किञ्च यद्यपि “ दृष्टो हि तस्यार्थ: कर्माsव बोधनम्” इत्यादीनि प्रवृत्ति-निवृत्ति-परत्वेनैव वेदस्य सार्थक्यं ब्रुवन्ति तथाsपि तद् धर्मजिज्ञासाविषयत्वम्  || किन्तु ब्रह्म मीमांसाशास्त्रे तत्परवेदान्तानां कार्यपरत्वं वक्तुं न शक्यते || अत एव वेदान्तप्रकरणघटितोपासनावाक्यानामपि उपासनाद्वारा अन्त:करणशुद्धिं संपाद्य आत्मज्ञानं संपादनीयमित्यत्रैव तात्पर्यम् || अत्र “सत्यं ज्ञाननमनन्तं ब्रह्म ” इत्यवान्तर वाक्यानां “तत्त्वमसि”  इत्यादि महावाक्यानां च निर्गुणब्रह्मपरत्वमेव नत्वन्यपरत्वम् || अवान्तरवाक्यानां तात्पर्यमवान्तर तात्पर्यमिति महावाक्यानां तात्पर्यं महा तात्पर्यमिति तद्वदुपवर्ण्य “ अहमीश्वरो वा” “अहमात्मा न वा ” “नाsहमीश्वर:” इत्यादि भेदभ्रमसंशयनिवर्तकत्वं महावाक्य ज्ञानस्यैव न तु सत्यं ज्ञानमनन्तमित्यवान्तर वाक्यजयज्ञानस्य इति विवरणे प्रतिपादितम् || एवं “तरति शोकमात्मवित्” (छा.उ *7.1.3) इत्यादौ आत्मज्ञाननिवर्त्यत्वं शोकशब्दवाच्यस्य बन्धस्य प्रतीयमानत्वात् ज्ञानैकसाध्या बन्धनिवृत्ति: न कर्मसाध्या,

बन्धस्याज्ञानविलसितत्वात् | एवं च बन्धनिवृत्ते: ज्ञानैकसाध्यत्वेन, ज्ञानस्य वस्तुतन्त्रत्वेन च ब्रह्मज्ञाने जाते निखिल संसारनिवृत्तिर्भवति ||

.....अनुवर्तते .....          

   

 

 

 

 

No comments: