Wednesday, October 15, 2014

Jokes in Sanskrit

Jokes in Sanskrit

Dr. Ch . Durga Prasada Rao

1.       अयमपि स: एव---
(अल्पाहारशाला)
कश्चन ग्राहक: (customer) अल्पाहारगृहं (hotel) गत्वा तस्यैव अल्पाहारस्य  आनयनम् आदिशत्, यश्च पूर्वस्मिन् दिने तेन तत्र सेवित: आसीत् | वितारकेण (waiter) आदेशानुसारम् अल्पाहार: आनीत: ग्राहकश्च पुरत: स्थापितश्च | ग्रहाक: किञ्चित् सेवित्वा रुच्यभावमनुभवन् वितारकम् आहूय अवदत् --
 अयि भो:! ह्यस्तन: अल्पाहार: स्वादु:  आसीत् |         परन्तु अद्यतन: तादृश:  नास्ति | ... किमर्थम् ?
तदा सेवक: अवदत् ---  महोदय! भवान् किमेवं वदति भो!
एष: अपि ह्यस्तनीय: एव |
  

2.       तस्य कृते अपि
(वैद्यरोगीसंवाद:)
रोगी वैद्यं  प्रति...
वैद्यमहोदय ! मम तु रक्तचापवृद्धिसंबन्धी व्याधि: (B.P) नास्ति| तथापि  किमर्थं तस्य कृतेऽपि औषधं लिख्यते  भवता ?
वैद्य: :-- देयकस्य (bill) दर्शनस्य अनन्तरं तदप्यागमिष्यति  इत्यत्र नास्ति मम सन्देह: | अत: तस्य कृते अपि औषधं
लिखितम् |     



3.       दक्षिणपार्श्वे, नतु वामपार्श्वे

कश्चन पुरुष: नूतनवस्त्रसीवनाय सीवकस्य ( Tailor) समीपं गत्वा उक्तवान्
अयि भो: | सीवनसमये एकं विषयं मा विस्मरतु | कोशं (pocket) तु युतकस्य (shirt) दक्षिणपार्श्वे एव सीवयतु, न तु वामपार्श्वे |
सीवक: अपृच्छत्--- किमर्थम् एवम् ? सर्वेऽपि वामपार्श्वे एव कोशस्थापनम् इच्छन्ति  | किमर्थं भवान् कोशं दक्षिणपार्श्वे स्थापयितुम् इच्छति ? इति |
पुरुष: अवदत्--- मम पत्नी सदा मम हृदये तिष्ठति | यदि कोश: तत्रैव स्थाप्येत तर्हि सा मम धनस्यूतं (purse) चोरयेत् | तत् कदापि न भवेत् | अत: अहं कोशं वामपार्श्वे सीवयितुम् इच्छामि |      


1 comment:

Unknown said...

Sir translate in hindi