Monday, February 2, 2015

A joke in Sanskrit

                           A joke in Sanskrit

एकदा कश्चन बालक: दन्तवैद्यस्य (dentist) समीपं गतवान् | वौद्यमहोदय ! मम मुखस्थ: एक: दन्त: मां तीव्रं बाधते (aching) | अहं बाधां सोढुं न शक्नोमि | अत: तं निष्कासयितुम् इच्छामि | तदर्थं कियद्धनं स्वीकरोति भवान् ?
वैद्य: :  केवलं द्विशतं (Rs 200) रुप्यकाणि |

बालक: : तावद्वा ! किन्तु मम समीपे तावत् धनं नास्ति केवलं 
पञ्चाशद् (Rs.50) रुप्यकाण्येव सन्ति |  अत: भवान्  मम दन्तं किञ्चित् शिथिली( (loose) करोतु | तदनन्तरम् अहं यथावकाशम् उन्मूलयितुं प्रयत्नं करिष्यामि |   

No comments: