इतिहासे तत्रस्थ-पात्र-नामौचित्यम्
डाक्टर्. चिलकमर्ति दुर्गाप्रसादरावु
संस्कृतवाङ्मयं तावत् श्रुतिस्मृतीतिहासपुराणकाव्यशस्त्रै:
सुसम्पन्नम् | तत्र वेदानामनन्तरम् इतिहास: प्राधान्यं,
प्रामाण्यं च तनुते | इति-ह-आस इति इतिहासपदनिर्वचनम् | एतेन इदं ज्ञायते यत् इतिहासो नाम
चारित्रकसत्यमिति | “ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” , “ इतिहासं पुराणं च पञ्चमो वेद
उच्युते ” इत्यादि प्रमाणै: इतिहासानामपि वेदतुल्यत्वमभ्युपगम्यते | इतिहास: परिक्रियापुराकल्पभेदेन द्विविध: | एकनायकाश्रया परिक्रिया, बहुनायकाश्रितो पुराकल्पश्च |
परिक्रिया पुराकल्प इतिहासगतिर्द्विधा
|
स्यादेकनायका पूर्वा
द्वितीया बहुनायका ||
इत्युक्तमालङ्कारिकै: | परिक्रिया इत्यस्य रामायणं पुराकल्पस्य च महाभारतं
उदाहरणत्वेन स्वीक्रियेते | रामायणे रामरावणयोर्युद्धमभिवर्णितम्| धर्मपरायणस्य
रामस्य विजयेन धर्मविमुखस्य रावणस्य पराजयेन अस्मिन्धर्मस्य पारम्यं प्रतिपादितमस्ति | वेदवेद्य:
पुरुषोत्तम: श्रीरामो भूत्वा यावदवतार तदनुपदमेव वेदोऽपि वाल्मीकिमहर्षे: वदनारविन्दाद्रामायणस्वरूपमादाय
प्रादुर्बभूव इति सांप्रदायिकानां कथनम् | तथाहि:-
वेदवेद्ये परे पुंसि जाते
दशरथात्मजे |
वेद: प्राचेतसादासीत्साक्षाद्रामायणात्मना ||
इत्युक्तम् | इदं रामायणं मानवजीवनस्य व्याख्यानमस्ति | तत् सांसारिक
व्यवहारोपदेशकाचार्यो भवति | भारतमपि रामायणमिव अस्मद्राष्टियं इतिहास: | अस्मिन् कौरवपाण्डवयोर्युद्धं
समुपवर्णितम् | धर्मरतानां पाण्डवानां विजयेन अधर्मरतानां कौरवाणां पराजयेन च अस्मिन्नपि
धर्मस्य प्राशस्त्यं प्रतिपादितम् | तथा च
ऐतिहासिकत्वात् इमौ द्वावपि ग्रन्थौ अस्मत्पुरतः अस्मदीयानाम् पूर्वजानां चरितं साक्षात्कारयन्तौ
लोकहिताय प्रवर्तेते | प्रायशः अनयोः स्थितानि सर्वाण्यपि पात्राणि सजीवानि स्वाभिमानशालीनि
अन्वर्थनामधेयाकानि च विराजन्ते | आश्चर्यजनकोsयं विषय: यत्प्रतिपात्रमन्वर्थनामधेयकम्
|
तत्रादौ रामायणमुद्दिश्य विचारयामः | श्रीरामः ग्रन्थस्यास्य नायक: | ”रमु” क्रीडायाम् इत्यस्माद्धातोः ‘ घञ ’ प्रत्यये कृते रामशब्द: उत्पन्नः, रमयतीति रामः इति तस्यार्थ: | वाल्मीकि: रामं
वर्णयन्सर्वसत्वमनोहर: राम: इत्युक्तवान् | अयमाबाल्यात् अवतारपरिसमाप्तिपर्यन्तं पितरं,
मातॄः, सोदरान् , पत्नीम् , राजकुलं, सर्वाः प्रजाः . प्रकृती:, योगिनश्च रञ्जयतीति
तस्य रामाख्यं नामान्वर्थमभवत् | रामः न केवलं रूपेण किञ्च गुणैश्चापि सुन्दरः आह्लादकारकश्च
| ” पुंसां मोहनरूपाय
रामचन्द्राय ते नमः ” इति रामस्य सौन्दर्यमभिवर्णितं कविभिः| शूर्पणखाsपि रामस्य सौन्दर्येण बलादाकृष्टा
अभूदिति सुविदितमेव | तस्य रामस्य गुणाः न केवलं मित्राणाम् , आश्रितानां च किन्तु
शत्रूणामपि ह्रुदयाह्लादकारका इति मारीचरावणकुम्भकर्णादिपात्राणां मुखादवगम्यते |
“न रामः कर्कशस्तावन्नाsविद्वान् नाsजितेन्द्रियः |
अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि || ”
“रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः
राजा सर्वस्य
लोकस्य देवानामिव वासवः ”
इति मारीचवचनं उदाहरणार्हतां भजते | अपि
च
“रमन्ते योगिनो यस्मिन् चिदानन्दे परात्मनि”
इति रामपदेनाsसौ परब्रह्माsभिधीयते
”
इति वचनात् रामः योगिनामपि आत्मानन्दसन्धायक इति ज्ञायते | आधुनिकयुगेsपि त्यागराजादयो महानुभावाः रामाख्यं
परं ब्रह्म शब्दब्रह्मणि साक्षाद्दर्शयन्तः मुक्तिं प्राप्नुवन् | अत्र
अयमपरो विशेषः | तथा हि :- “रा” शब्दस्य
विश्वमर्थ: , ”म” शब्दस्य ईश्वरोsर्थ:| तथा च विश्वाधीन: ईश्वर: इत्यर्थ: सिध्यति
|
“रा शब्दो विश्ववचनः मश्चापीश्वरवाचकः
विश्वाधीनेश्वरो यो हि तेन रामः प्रकीर्तितः ”
--- इत्युक्तम् | अत्र
विश्वस्य अधीन: विश्वाधीन: ; विश्वम् अधीनम् यस्मिन् सः विश्वाधीन: इत्यर्थद्वयस्वीकारेण रामः स्वयं
जगत्प्र्भुरपि, अवतारपुरुषोऽपि जगदभिमतमनुसृत्यैव राज्यं शशासेति प्रजाभिप्रायमादर्तुं
प्राणसमामपि सीतां परित्यक्तवानित्यस्मिन्
प्रयुक्तः रामशब्दः औचित्यपूर्णमेव भवति | अपि च रामशब्दः रावण मरणहेतुः राक्षस मरणहेतुश्च भवति | कारणजन्मा अयं श्रीरामः धर्मस्थापनार्थं रावणं तदितरांश्च राक्षसान्निहत्य
अन्वर्थनामधेयको भवतीति वक्तुं शक्यते|
इदानीम् अत्र सीताशब्दो विचार्यते | रामस्य पत्नी सीता | सा
जनकस्य सुता | यज्ञार्थं भूमिं कृषतः जनकस्य लाङ्गलपद्धतेरियं
समुत्पन्ना | अत एव सीतेति अन्वर्थनामधेया | अयं विषयः
.
“अथ में कृषतः क्षेत्रं लाङ्गलादुद्धिता ततः
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ”
-- इति रामायण श्लोकादवगम्यते |
इदानीं रावणशब्दस्य औचित्यमधिकृत्य विचारणा क्रियते | रामायणे रावणः प्रतिनायकः
| अयं स्वशौर्येण कार्येण च लोकान् रावयतीति रावणनाम्ना विख्यातः | अत्र अपरो विशेषः | एकदा कुबेरं विजित्य, तस्य
पुष्पकविमानं वशीकृत्य, तदधिरुढ: लङ्कां प्रतस्थे | मार्गमध्ये कुमारस्वामिन:
जन्मस्थलमागतम् | रावणस्य विमानं यदा तत्र आगतं तदा स्थगितम् | नन्दीश्वर: तस्य संचारं तत्र न्यषेधीत् | रावणस्तु
तस्य वचनं निराकृतवान् | नन्दीश्वर: रावणं शशाप | तत: कुपितः कैलासगिरिमुन्मूलयितुं प्रायतत | नन्दीश्वरप्रभृतय:
शिवगणा: पार्वती च भयभीता: संजाताः | पर्वती भयेन शिवमालिङ्गितवती च | शिवः लीलया स्वपादाङ्गुष्ठेन पर्वतं संघट्टयन्
स्थित: | तदा पर्वतस्य अध:पतितः रावणः उच्चै: रवं चकार | तस्य रवेण त्रयोऽपि लोकाः
भयभीताः अभवन् | अत एव तस्य रावण इति नाम संप्राप्तम् | विषयोऽयं ----
“यस्माल्लोकत्रयं चैतत् द्रावितं भयमागतं |
तस्मात्त्वं रावणो
नाम नाम्ना राजन् भविष्यसि || ”
- इति रामायणश्लोकादवगम्यते | तथा च लोकान् लोकान् रावयति इति रावण | अत एव एषोऽपि अन्वर्थनामधेय: | इदानीं ‘ हनुमत् ’ शब्दो विचार्यते | रामायणगतप्रधानपात्रेषु
हनुमतः पात्रमन्यतमम् | सोऽयं महानुभावः अञ्जनायाः
पुत्रः रामभक्तेष्वग्रगण्य: रामायणमहामालारत्नं च भवति | हनुः अस्यास्तीति हनुमान्
| सः एकदा उद्यन्तं भास्करं फलमिति भ्रमित्वा खादितुं त्रिसहस्रयोजनदूरमाकाशं उत्प्लुत्य
तमगृहीत्वैव उदयपर्वते पपात | तदा तस्य हनुः शिलातलसंघट्टनेन पीडितोsपि न नाशमवाप
| तादृशदृढहनुधारणादस्य हनुमानिति नाम | विषयोऽयं तस्य शारीरकदृढत्वं सूचयति | हनुमतः
शारीरकबलं रावणकुम्भ्कर्णेन्द्रजित्प्रमुखैः सह युद्धे, लक्ष्मणप्राणसंरक्षणार्थं संजीवनीपर्वतानयने
च महदुपयुक्तं भवति | एवमेव विभीषणकुम्भकर्ण
मारीचलक्ष्मणभरतशत्रुघ्नादिपुरुषपात्राणि शूर्पणखा मन्डोदर्यादि स्त्रीपात्राणि च
नामौचित्यशोभितानि दरीदृश्यन्ते |
एवमेव महाभरतेऽपि वर्णितानि सर्वाण्यपि प्रधानपात्राणि अन्वर्थनामधेयकानि,
औचित्यशोभितानि च दरीदृश्यन्ते | अत्र सर्वप्रथमतः कुरुकुलवृद्धं शान्तनवं
स्वीकुर्म: | सः स्वपितो: शन्तनोः विवाहसम्पादनार्थम् “अहं न कदापि परिणयेयम् “ इति भीषणाम् प्रतिज्ञां कृत्वा भीष्मोsभवत् | अनन्तरं सः
स्वयं मात्रा प्रार्थितोऽपि कृतप्रतिज्ञां
नाsत्यजत् | एवमयं अन्वर्थनामधेयकः |
अम्बिकापुत्रः धृतराष्ट्रः स्वस्य
अन्धत्वात् राज्यपालनाय अनर्होऽपि स्वस्यानुजस्य पाण्डुराजस्य औदार्येण राष्ट्रं धृतवानिति
तस्य धृतराष्ट्र इति नामान्वर्थं प्रतिभाति | अम्बालिकापुत्र: पाण्डुहेतुत्वात्
पाण्डुराज इति सोऽपि अन्वर्थनामधेय: | दासीपुत्रो विदुरः ज्ञानशौण्ड : इति तस्य
विदुरत्वं सोपपन्नमेव भवति | पाण्डवाग्रज:
धर्मराजः धर्मदेवतायाः अनुग्रहेण कुन्त्यां समुत्पन्नः | तस्य मतिः सदा धर्मेण वर्तते
इति तस्य धर्मराजता | धर्मेण राजते इति धर्मराजः | सः बह्वीषु अपि विपत्तिषु धर्मं
नाsत्यजदिति तस्य धर्मराजत्वम् अन्वर्थं भवति| पाण्डवद्वितीयो भीम: वायुदेवतायाः
अनुग्रहेण कुन्त्यां समुत्पन्न:| बिभेत्यस्मादिति भीमः तस्य दृढदेहत्वात्
भीषणकर्मत्वाच्च | दुर्योधनादि शत्रवः सर्वे तस्मात् बिभ्यति इति तस्य
भीमत्वमुपपन्नमेव | धृतराष्ट्रोऽपि भीमात्स्वपुत्राणाम् आपत्तिं शंकमानः असीदिति
तस्य भीमत्वम् औचित्यपूर्णमेव प्रतिभाति |
अर्जुन: पाण्डवमध्यम: | तस्य दश नामानि समुपलभ्यन्ते | अयं रूपेण कर्मणा च
शुद्धत्वादर्जुननामधेय: | तथा हि :-
पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभ: समः
करोमि
कर्म शुद्धं च तेन मामर्जुनं विदुः
इति स्वयमर्जुनेनोक्तम् | अयमुत्तरफल्गुणीनक्षत्रे जन्म प्राप्तवानिति फल्गुण:
भवति | पृथा नाम कुन्ती पृथायाः सुतत्वत् अस्य पार्थ इति नाम | अस्य चतुर्धं नाम
किरीटी | स्वयम् इन्द्रेण किरीटम् अस्मै दत्तमिति तत्प्रभृत्ययं किरीटि नाम्ना
प्रसिद्ध:| तथा हि:--
“पुरा शक्रेण मे बद्धं युद्ध्यता दानवर्षभैः
किरीटं मूर्ध्नि सूर्याभं
तेनाहुर्मां किरीटिनम् -- इति |
कृष्णतनुत्वादस्य कृष्णत्वम् | तस्य सव्यापसव्यौ भुजावुभावपि गाण्डीवस्य
विकर्षणे समर्थाविति सव्यसाचित्वं
तस्योपपद्यत एव | तथा हि :--
उभौ मे दक्षिणे पाणी गाण्डीवस्य विकर्षणे
तेन देवमनुष्येषु
सव्यसाचीति मां विदु: - इति
स्वयमुक्तमर्जुनेन |
स: सर्वान् जित्वा तेभ्यो धनं
स्वीकृत्य धनराशीनां मध्ये तिष्ठतीति तस्य धनञ्जयत्वं सर्वथोपपन्नमेव | तथा हि :-
सर्वान् जनपदान् जित्वा वित्तमादायकेवलं
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् इति |
एवं द्वयोरपीतिहासयो: स्वीकृतानि
पात्राणि अन्वर्थनामधेयानि संदृश्यन्ते| अत्र केवलं व्यासविस्तरभयात् कानिचन पात्राण्येव
स्वीकृतानीति अन्यानि पाठकै: स्वयं द्रष्टव्यानीति शम् |
No comments:
Post a Comment