A Study of Ratnaprabha-part-5
1. सरस्वतीसंप्रदाय:
अद्वैतमतानुयायिषु सन्यासिषु
दशसंप्रदाया: वर्तन्ते ||
“ तीर्थाश्रमवनारण्यगिरिपर्वतसागरा: |
सरस्वती भारती च पूरी नामानि वै दश ” इति ||
श्रीमद्भगवत्पादशिष्येषु
पृथ्वीधराचार्या: अन्यतमा: इति, तेषां सकाशे दशसांप्रदायानुवर्तिन: सन्यासिन: आसन्निति
च ज्ञायते (36) || तथा चायं दशविधसन्यासिनां संप्रदाय: तत्प्रभृत्यारब्ध: अथवा
तत्काले एवासीदिति निर्णेतुं शक्यते || तेषु पूरी, भारती, सरस्वती नामान:
शृङ्गेरीमठसंप्रदायानुयायिन: || गिरि, अरण्य, वन नामान:
ज्योतिर्मठसंप्रदायानुयायिन: || आश्रम, तीर्थनामान: द्वारकामठसंप्रदायानुयायिन: ||
पर्वत,सागरनामान: पूरीमठसंप्रदायानुयायिन: इति “श्रीशङ्करदिग्विजय:” इति नामकस्य ग्रन्थस्य उपोद्घातादवगम्यते ||(37) सरस्वतीसंप्रदायस्तु
काञ्चीमण्डलसम्बन्धीति अद्वैतग्रन्थकोशस्य उपोद्घाते उक्तम् ||(38)
तथा चैते रामानन्दसरस्वत्य: काञ्चीमण्डलसंप्रदायानुयायिन:
इति ज्ञायते || तै: कृता कामाक्षीत्यादिस्तुतिरपि (39) तमेवाभिप्रायं द्रढयति
||
4. रामानन्दस्य काल:
रत्नप्रभाकाराणामधिकालं
कोविदानां नानामतान्यवलोक्यन्ते || दासगुप्तमहोदयेन रत्नप्रभाव्याख्यानकर्तु: काल: चतुर्दशशतकमित्येकत्र (40)
षोडशशतकमित्यन्यत्र च (41) निरुपित: दृश्यते || दासगुप्तमहोदयस्याभिप्राये
रत्नप्रभाकर्ता गोविन्दानन्द:, रामानन्दस्तु विवरणोपन्यासकर्ता || कालश्च तस्य
रामानन्दस्य सप्तदशशतकपूर्वभाग:|| (42) शारीरकमीमांसाभाष्यवार्तिकप्रणेता
नारायणसरस्वति: रत्नप्रभाकर्तु: सामयिक:
सतीर्थ्यश्च भवति || तस्य ग्रन्थ: गद्यमय:
भाष्यस्य व्याख्यानरुपश्च भवति || नारायणसरस्वति: लघुचन्द्रिकाकारस्य गौड ब्रह्मानन्दस्य गुरु: इति तस्य काल: A.D 1600
- A.D1700 इति तङ्गस्वामिपण्डितै: निश्चितत्वात् (43) स एव काल:
रत्नप्रभाकाराणामपि भवितुमर्हति || अपि च ब्रह्मविद्याभारणकर्ता अद्वैतानन्दसरस्वति: रामानन्दसरस्वतीनां
सकाशादुपात्तशारीरकमीमांसासूत्रभाष्य इति प्रागेव निरूपितम् || कालश्च तस्य 1762 A.D
इति अनन्तकृष्णशास्त्रिणां मतमनुसृत्य
कार्ल. हेच. पोटर् पण्डितै: निरुपितम्
(44) || तथा च रामानन्द: तत्पूर्ववर्ती वा तत्सामयिकश्च वा भवितुमर्हतीति
निश्चीयते || श्रीतङ्गस्वामिपण्डितै:
रामानन्दस्य काल: 1570—1650 A.D इति निश्चित: (45) || तथा च पूर्वोक्तै: प्रमाणै: रामानन्द:
सप्तदशशतकवर्ती इति निश्चीयते ||
1. रामानन्दसरस्वतीनाम् इतरा: कृतय:
1. विवरणोपन्यास: -- ग्रन्थोsयं
विवरणमतसारांशरुप: || विवरण प्रस्थानग्रन्थेषु प्रायश: अयमेव चरमो ग्रन्थ: इति
दासगुप्तपण्डिता: मन्वते (46) || ग्रन्थोsयं रत्नप्रभारचनाया: पूर्वमेव विरचित इति
“ विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासमुखेन मया दर्शित: सुखबोधाय इतीहोपरम्यते” इति रत्नप्रभावचनादवगम्यते | कैश्चन विवरणोपन्यासविवरणप्रमेयसंग्रहयोरैक्यमभिप्रेतम् |
तन्न समीचीनं तयो: पार्थक्येनोपलभ्यमानत्वात् ||
2. वाक्यवृत्तिव्याख्या :-
अमुद्रितोsयं ग्रन्थ:
मद्रपुरराजकीयहस्तलिखितपुस्तकालये लक्ष्यते ||
“वाक्यवृत्तिव्याख्याने रामानन्दीयेsयमर्थ: विस्तरेण प्रतिपादित:” इति पूर्णानन्दीयवचनात् (50)
ग्रन्थस्यास्य प्रणेतार: रामानन्दा: एवेति स्पष्टमवगम्यते || अस्यैव
लघुवाक्यवृत्तिप्रकाशिकेत्यपरं नामेति श्री दासगुप्तपण्डित: (51) ||
वाक्यवृत्तिस्तु भगवत्पादकृतिरिति पण्डितानां विश्वास: ||
3. ब्रहमामृतवर्षिणी :-
ब्रह्मसूत्रवृत्तिरुपात्मकोsयं
ग्रन्थ: रत्नप्रभाकारैरेव विरचित इति पण्डितानामभिप्राय: || किन्त्वाधारा:
नोपलभ्यन्ते || ग्रन्थयोरुभयो: प्रदर्शितं
रामभक्त्यतिशयत्वमेवैकर्तृकत्वनिरुपणे हेतुरिति तेषां कथनम् || परन्तु नाsयं समीचीन: पन्था: ||
ब्रहमामृतवर्षिणीकारा: रामानन्दा: मुकुन्दगोविन्दश्रीचरणानां शिष्या: (52) ||
अतस्ते रत्नप्रभाकारेभ्यो भिना: इत्यवश्यं विज्ञेयम् ||
6. रत्नप्रभाकार: रामभक्त:
रत्नप्रभाकार: रामभक्त: ||
रत्नप्रभाव्याख्या रामस्तुत्या आरब्धा रामस्तुत्यैव समाप्तिं गमिता || अपि च
प्रत्यधिकरणं रामस्तुत्यैवारब्धम् || किञ्च यथावकाशं राम: प्रस्तुत: रामायण
प्रसक्तिश्च यथावकाशमानीता च || तद्यथा :-- वेद: स्वविषयादधिकार्थज्ञानवज्जन्य:
प्रमाणवाक्यत्वात् व्याकरण रामायणादित्यनुमानान्तरम् (53) || अपि च
“ रामरावणयोर्युद्धं रामरावणयोरिव ” “ सीताsल्किष्ट इवाssभाति कोदण्डप्रभया युत: ” (54) इत्यादीनि तस्य रामभक्तिं
प्रकटयन्ति ||
अनुवर्तते (to be continued)
No comments:
Post a Comment