श्री
ज्ञानसरस्वतीसुप्रभातम्
वेदुल सुन्दररामशास्त्री
श्रीज्ञानसरस्वतीसुप्रभातम् is a stotra kavya in
which the divinity of Saraswati, the Goddess of learning is praised. The author
of this wonderful piece of poetry was Sri Vedula Sundararama Sastry , my
revered Guru, under the lotus feet of whom I studied Sanskrit. He was a great
grammarian who himself studied and mastered all the treatises of Panini’s
grammar under the tutelage of Sri Tata SubbarayaSastry of Vijayanagaram, who
was an internally renowned Scholar in grammar.
.
Sri Vedula
Sundararama Sastry was not only a great grammarian but also a great scholar in
all branches of Sanskrit learning and a great poet who authored many kavyas in
Telugu and as well as in Sanskrit. The present work श्रीज्ञानसरस्वतीसुप्रभातम्
is benedictory poetry in praise of the Goddess of learning Saraswati who
manifested herself in Anantasaraswati nagar of Malkajigiri area in Hyderabad of
Telangana State. This poetry is very lucid in style and covers all aspects of
Goddess Saraswati . The poet wishes every one to get the stotra by hearth,
worship Goddess Saraswati and attain prosperity and progress in education with
her divine blessings.
DurgaprasadaRao
ग्रन्थस्यास्य निर्मातार: मान्या : श्रीमन्त: वेदुल सुन्दररामशास्त्रिमहाभागा:
मम गुरुवर्या: || ते तु जगत्प्रसिद्धानां श्रीमतां
ताता सुब्बरायशास्त्रिमहोदयानामन्तेवासिन:,
तेभ्योsधीतव्याकरणशास्त्रा: || एते महानुभावा: न केवलं
व्याकरणशास्त्रे अपि तु सर्वशास्त्रेषु
निष्णाता: , महापण्डिता: , सुप्रसिद्धकवय: च आसन् || तै: विरचितमिदं श्री
ज्ञानसरस्वतीसुप्रभातम् सरस्वत्युपासकानां सौकर्यार्थम् अत्र निक्षिप्तम्
भवति || ये जना: इदं सुप्रभातं प्रतिदिनं श्रद्धया पठन्ति तेभ्य: सरस्वत्या:
अनुग्रह: अवश्यं सिध्यति तेन सर्वास्वपि
विद्यासु ते निष्णाता: भविष्यन्ति इति मम गुरुवर्याणां विश्वास: /
आकाङ्क्षा च भवति || इत्थं
गुरुजनविधेय:
दुर्गाप्रसाद:
श्री
ज्ञानसरस्वतीसुप्रभातम्
वेदुल
सुन्दररामशास्त्री
श्रीभाग्यनगराssनन्दा
रामाsनन्तसरस्वती |
नगरीसंस्थितज्ञानसरस्वत्यै
नमो नम: || (1)
ब्रह्मपुत्री ब्रह्मपत्नी
ब्रह्मवाक् ब्रह्मरुपिणी |
ज्ञानसरस्वतीदेवी
रक्षतान्न: कृपाsन्विता || (2)
आनन्दबागनन्तश्री
वाग्देवी पुरमन्दिरे |
स्थिता सरस्वती
विद्यां ददात्वस्माकमम्बिका || (3)
सिताम्बुजासनाsसीनां
विद्याकैरवकौमुदीम् |
इन्द्रोपेन्द्राsद्यर्चनीयां
वाणीं वन्दामहेsनिशम् || (4)
एकेन हस्तेन
वराक्षमालिका
मन्येन विज्ञानविकासपुस्तकम् |
मन्येन विज्ञानविकासपुस्तकम् |
परेण
नादामृतवर्षकच्छपीं
चतुर्थहस्तेन च ज्ञानमुद्रिकाम् || (5)
चतुर्थहस्तेन च ज्ञानमुद्रिकाम् || (5)
एवं दोर्भिर्दधाना
सा भक्तवैदुष्यबोधिनी |
ज्ञानसरस्वती देवी
सुप्रसन्ना सदाsस्तु न: || (6)
शब्दब्रह्ममयप्रपञ्चनिलयां
विज्ञानसंपूरिता
मच्छोदन्तरसामृताsर्णवविहारानन्दचित्तां
परां |
वाग्घस्तीशबलैस्तुरङ्गमबलालङ्कारप्रासोद्गमै:
रीडे
मञ्जुपदै:पदातिविभवै: पुष्टां गिरां देवताम् ||
(7)
परमेष्ठिप्रिये !
ब्रह्ममुखमण्डलशोभिनि !
वेदवेदान्तसंवेद्ये
नौमि देवि ! सरस्वति ! || (8)
श्रीसरस्वतीसुप्रभातम्
मायानिबद्धभवसागररुग्णचित्ता:
त्वद्वारमभ्युपगतास्सुखकामनायै
|
ज्ञानौषधीकरुणया
सहसा प्रदेया
उत्तिष्ठ भास्वति!
सरस्वति! सुप्रभातम् || (9)
अज्ञानगाढतिमिरोन्मधनस्वरूपे
विज्ञानदानगुणमण्डितसिद्धहस्ते|
प्रज्ञानबोधविकसन्मृदुमन्दहासे
हे ज्ञानदात्रि !
वरदे ! तव सुप्रभातम् || (10)
दिव्यामरेन्द्रनुतिपात्रमुखारविन्दे!
ध्यानस्थयोगिवरचित्तलसत्स्वरूपे ! |
गान्धर्वगानमृदुनादचलोत्तमाङ्गे
हे ज्ञानदात्रि !
वरदे ! तव सुप्रभातम् || (11)
श्री
नारदादिमुनयस्तवपादपूजां
कर्तुं
प्रमोदभरितस्तुतिगीतिकाभि: |
भागीरथीन्दिवरनिरजगन्धपुष्पै:
द्वास्था:
प्रसीदतु सरस्वति ! सुप्रभातम् || (12)
हस्ताङ्गुलिग्रथितपत्रसुलेखिनीका:
त्वद्बोधनाश्रवणलेखनलग्नचित्ता:
|
बालाश्चलन्ति
निनदन्ति गृहाङ्गणेषु
उत्तिष्ठ !
वाक्सति ! सरस्वति ! सुप्रभातम् || (13)
अज्ञानमौढ्यपरिभावितचित्तवृत्ती
नुद्दीपितुं
करुणया भुवि बासराख्य |
क्षेत्रेsथ
भाग्यनगरे त्वमवातर:किं ?
उत्तिष्ठ !
वाक्सति ! सरस्वति! सुप्रभातम् || (14)
वीणानिनादमधुमञ्जुलगीतिकादीन्
उत्कीर्णरागरसरम्यमनोज्ञगेयान्
|
देवर्षि-तुम्बुरु-महेन्द्र-महर्षिसंघा:
श्रोतुं स्थिता:
खलु सरस्वति ! सुप्रभातम् || (15)
रम्भोर्वशीसुभगनिर्मितिदीक्षितोsसा
वाधिक्यसृष्टिकरशक्तिसुदूरागस्त्वा
मंभोजयोनिरविमुच्यमुखेनुsधत्ते
सौन्दर्यशालिनि
सरस्वति! सुप्रभातम् || (16)
गोक्षीरफेनशिशिरांशुसुधासिताब्ज
श्वेतप्रभांचितमनोज्ञसुदेहकान्त्या
प्रालेयकान्तिनिवहा
न्विनिवेश्य दिक्षु
उत्तिष्ठ ! सुन्दरि सरस्वति !
सुप्रभातम् || (17)
गायन्ति वेदविबुधा:
वरसाममन्त्रै :
कूजन्ति
कोकिलशुकादिविहङ्गसंघा:
गच्छन्ति भानुकिरणोत्थतमिस्रभागा:
उत्तिष्ठ !वाणि ! वरदे
!तव सुप्रभातम् || (18)
वासिष्ठगौतमपराशरमौनिसंघा:
लोकप्रवृत्तिपथसूचकधर्मसूक्ती:
आरब्धुमुत्सुकधियोभवदर्चनेन
उत्तिष्ठ!
वाक्सति! सरस्वति! सुप्रभातम् || (19)
उत्तिष्ठ! शारदे
चन्द्रवदने! चारुहासिनि!
उत्तिष्ठ! वरदे !
चारु तन्वङ्गि ! ज्ञानदायिनि (20)
बाल: शङ्करनामको वटुरयं
कौपीनवान् रूपवान्
पञ्चाब्दीयवयस्क एष
कविताव्यापारपारङ्गत: |
आगत्याssगमसूक्तिचित्रितभवत्स्तोत्राणि
विश्रावय
न्नाशीर्वादमवाप्तुमुत्सुकतया
द्वास्थोsञ्जसाsयाहि भो: || (21)
निकषा त्वां
समाराध्य बृहस्पतिमुखा: सुरा:
त्वदनुग्रहमाकांक्ष्य
वर्तन्ते करकुट्मलै: (22)
श्री
सरस्वतीस्तुति:
सत्काव्योदयनिर्मितौ
कविकुलाsमोदाभिलाषी कवि:
नत्वा त्वां नुतिभिर्विचिन्त्य
कवितापूर्तिं करोत्युत्सुक:
नो चेदक्षरपादपद्यपदविभ्रान्त्या
स्मृतिभ्रंशत:
तत्काव्यस्य
समग्रतां न कुरुते न क्वापि संमान्यते (23)
संगीतसाहित्यकळारसज्ञै:
संसेव्यमानांघ्रिसरोरुहां
त्वां
ध्यायन्ति धन्या:
कविताविभूति:
ज्ञेयात्मतत्त्वैकविचारचित्तै:
(24)
वेदा:
कण्ठसुभूषहारलतिकास्सीमन्तमाणिक्यता
मापन्नाश्श्रुतिशीर्षकाश्च
यजुषी पादस्थिते नूपुरे |
कुक्षिश्शास्त्रसुधाप्रपूर्णकलशो
दृष्टिश्चिदानन्ददा
नादज्ञानमयस्वरुपललितां
वाग्देवतां तां भजे (25)
त्वत्पादद्वयसेवनेन
कविताव्यापारपारीणता
त्वत्पूजोत्सवदर्शनेन
भविता विद्योन्नतप्राज्ञता
त्वद्ध्यानामृतराजयोगविलसद्विज्ञानविद्युत्प्रभा
त्वन्नामस्मृतिवैभवेन
कलिता वाक् सज्जनाह्लादिका (26)
ॐकारनादात्मकविश्वरूपां
शब्दाsमृताsनन्दपरैकतत्त्वां
श्रीसूत्रकारादिमुनित्रयस्य
(शेषाहि कात्यायन
पाणिनीनां)
भव्याक्षराभ्यासकरीं
भजे त्वाम् (27)
त्वत्कृपादृष्टिमात्रेण
प्रज्ञानघनचक्षुष:
अभवन्मुनय: सर्वे
ज्ञानरूपे ! सरस्वति ! || (28)
रम्याणि
काव्यशतकानि पुराणवेद
वेदान्तनाटकविमर्शकगेयकाव्य
शास्त्राणि
मान्यमनुगौतमधर्मशास्त्र
ग्रन्थानि
त्वद्रुचिररूपविभाजकानि || (29)
त्वदर्चनाsनर्चनाभ्यां
ज्ञानिनोsज्ञानिनो भुवि |
सम्भवन्तीति
धिषणा: पुर्वकर्मानुरोधिनी || (30)
धिषणामनुसृत्यैव
युङ्क्ते कर्मणि मानव:
अतस्त्वदर्चनाबुद्धिं
वाग्देवि ! त्वं प्रसीद न: || (31)
लोकानां
परिपालनक्रमविधिस्सत्कार्यसंरक्षणा,
न्यायाsन्यायविचार
तत्परसुधीर्गीर्वाणसेवारति: |
देवाsवासकृतोत्सवादिविभवो
यत्किञ्चिदद्यापि सं
भूयन्ते खलु ते
सरस्वति ! कृपा दीव्यत्कटाक्षाञ्चलै: || (32)
आयुर्धनारोग्यबलातिशायिन:
भूयासुरस्यां भुवि भूरिमानवा: |
त्वत्पादपूजाविधिमूढबुद्ध्य:
विज्ञान हीना यदि भारदायिन: || (33)
आम्नायागममन्त्रराजनिगमप्रोक्तार्थविद्योतितां
सन्निष्ठानियमोत्कराञ्चितगुणां
शान्तिप्रदां मुक्तिदाम् |
आचार्योत्तमसद्गुरुप्रकथितां
विद्यास्वरुपां विधि
स्सर्वत्रोद्गमनं
निरोद्धुमभिलाषी त्वाsनुधत्ते मुखे || (34)
लोकानिमान्स्रष्टुमज:
पुरा भृशं
संदिग्धपर्याकुलमानसोsभवत्
|
त्वद्रूपमादौ
परिकल्प्य मानसे
धैर्येण
सर्वानसृजत् प्रजापति: || (35)
वेधास्त्वां
दाररूपेण परिगृह्य त्वदाश्रयम् |
प्राप्याsथ ससृजे
लोकान् पुत्री पत्नी भवस्यहो || (36)
श्रीसरस्वतीप्रपत्ति:
माहेश्वराsगतसुवर्णविशेषरूपै:
सर्वप्रपञ्चपरिनर्तितनाट्यरूपां
त्वां
भावयेsहमनिशं मृदु मञ्जुगात्रीं
हे ज्ञानदात्रि !
चरणौ शरणं प्रपद्ये || (37)
श्रीकालिदासभवभूतिमुरारिबाण
श्रीशङ्करादिकविपण्डितशास्त्रकारै:
संस्तूयमानगुणसूनविराजमानौ
हे ज्ञानदात्रि !
चरणौ शरणं प्रपद्ये || (38)
श्री
वासवादिदिविषद्वरसेव्यमानौ
राजाधिराजजयदेवमुखार्चनीयौ
|
वेदोपपन्नवरसूक्तिविराजमानौ
हे ज्ञानदात्रि !
चरणौ शरणं प्रपद्ये || (39)
अम्भोजकुन्दकुसुमोत्पलचारुरुपौ
चन्द्रप्रभाधवलवर्णसुदीप्यमानौ
भक्तालिवाञ्छितवरप्रदकल्पभूजौ
हे ज्ञानदात्रि !
चरणौ शरणं प्रपद्ये || (40)
मङ्गळानुशासनम्
मुकानां
शब्दहीनानां शब्दोच्चारणशक्तता
मन्दानां
जाड्यचित्तानां बुद्धिप्राभवशक्तता || (41)
किञ्चिज्ञानां च
विज्ञानचन्द्रिकादीप्तिशक्तता
त्वत्कृपालेशमात्रेण
जायते तव मङ्गलम् || (42)
वाल्मीकि: प्रधमं
प्रविश्य चरणं त्वद्बोधमावर्तते
व्यास:
पुस्तकमाचिनोति त्वरया पाठ्यांशसंशोभितम् |
धीमान् धावति
कालमानगमनात् भीतो भृशं श्वाशित:
अध्याप्यांशविशेषबोधचतुरे वाग्देवि ! ते मङ्गलम् || (43)
अध्याप्यांशविशेषबोधचतुरे वाग्देवि ! ते मङ्गलम् || (43)
त्वत्संचारसुदूरकारणभवा,
विन्यस्तमौढ्यान्धता
त्वद्दृष्टिप्रवियोगपीडितजनध्वस्तात्मविज्ञानधी:
|
आहाराsर्थकुमारदारधरणीप्रेमैकचित्ता:
नरा:
त्वत्पुत्रा: खलु
तान्निबोध कृपया वाग्देवि ! ते मङ्गलम् || (44)
चतुष्षष्टिकळारूपे
! चतुर्मुखमुखालये |
चरुर्निगमसंवेद्ये
! मङ्गलं ते सरस्वति || (45)
कद्रूजाङ्गद,
सूनबाणजनक , ब्रह्माssदितेयादिभि:
प्राग्जन्मत्वदुपासनाप्रणुतिलब्धश्री
कवित्वोल्लस
त्पौराणादिसुकाव्यनाटककथाधौरेयवाक्सूरिभि
:
स्तुत्यां
त्वामनिशं पितामहि ! भजे ते शारदे मङ्गलम् || (46)
तुलसी – बिल्व – वकुळ -
केतक्यामलकीदळै: |
अम्बुजोत्पलपालाशखदिराकुन्दकुट्मलै:
|| (47)
सुगन्धधूपदीपैश्च
पायसान्ननिवेदनै:
पूजिता या भगवति!
ज्ञानदे ! तव मङ्गलम् || (48)
दुरन्ताsज्ञानतिमिरनिबिडीकृतमानसान्
|
प्रज्ञानघनकारुण्यवीक्षणेन
प्रसीद न: ||(49)
त्वमेव माता च
पिता त्वमेव
त्वमेव भ्राता
च सहोदरि त्वम् |
त्वमेव बन्धुश्च
सखा त्वमेव
सर्वं मदीयं तु
सरस्वति त्वम् || (50)
सरस्वती नदीरूपा अभवत्
लिङ्गान्तं हिमया
दृष्टमित्युवाच विधिर्मृषा |
नदी भूयादिति
शिवश्शेषे वाचं तु ब्रह्मण: || (51)
सरस्वत्या: जलं रक्तवर्णं
भवति
वसिष्ठं वञ्चितुं
स्मृत्वा विश्वामित्र: सरस्वतीम्
आगच्छत्साधनान्याप्तुं
वसिष्ठं पतितं तदा || (52)
दृष्ट्वा तस्यां
कौशिकेन शप्ता सा शोणिताsभवत् |
साsदयान्तर्हिताsभूत्तां
न पश्यन्ति नरा: भुवि || (53)
‘सप्तसारस्वतम्’ इति ख्याता अभवत्
निमितारण्य
वसदृषीश्वरकृतान्यागान्समालोकितुं
रुचिराsलङ्कृतवाहिनी
भुवि सरस्व्त्यादरात्सप्तधा |
विविधाख्याकृतभूमिका
गतवती सा तैर्मुदा पूजिता
अत एकं समभूच्च
नाम विदितं तत्सप्त सारस्वतम् || (54)
महिता
रमणीयशारदाम्बा
स्तुतिरेका
कमनीयभक्तिमूला |
पठिता यदि पाप
हारिणी सा
रचिता सुन्दररामशास्त्रिणा च || (55)
*******