Monday, October 27, 2014

A joke in Sanskrit

A joke in Sanskrit
( सर्वे मेधाविन: एव )
डाक्टर्. चिलकमर्ति. दुर्गाप्रसादरावु

         एक: ग्राम: | तस्मिन् ग्रामे एका पाठशाला |  तत्र एक: अध्यापक: सर्वान् विद्यार्थिन: पाठयति स्म | एकस्मिन् दिने विद्यार्थिनां पाटवं परीक्षितुं एक: परीक्षाधिकारी (D.E.O)  तत्र आगतवान् | तत्र एकं विद्यार्थिनम्  उत्थाप्य रामायणं केन लिखितम्? इति प्रश्नं पृष्ठवान् | स तु समाधानं किमप्यनुक्त्वा रोदितुमारब्धवान् | उपाध्याय: परीक्षाधिकारी च द्वौ अपि विचलितौ अभवताम् | तत: परीक्षाधिकारी द्वितीयं बालकमुत्थाप्य तम् अपि अमुं  प्रश्नम् एव  पृष्ठवान् | स: अपि रोदितुमारब्धवान् | तत: सर्वेषां विद्यार्थिनां विषये एवमेव प्रवृत्तम्  | अन्तत: परीक्षाधिकारी अन्तिमं विद्यार्थिनम् उत्थाप्य तम् अमुमेव प्रश्नं पृष्ठवान् | स: किञ्चित् धैर्यम् अवलम्ब्य क्षम्यताम् | अहं सत्यं वदामि |  मया  तु न लिखितम् इति समाधानं दत्तवान् |
 तत् श्रुत्वा कोपोद्रिक्त: अध्यापक: परीक्षाधिकारिणम् उद्दिश्य महात्मन् | भवन्त: एतस्य स्वभावं न जानन्ति | परन्तु अहं जानामि| एष: सर्वदा असत्यमेव वदति | बहुश:  रामायणं एतेनैव लिखितं स्यात्  | यदि वयं तं वेत्रेण ताडयाम: , तर्हि  अवश्यं सत्यं वदिष्यति इति उक्त्वा तं बालकं  ताडयितुम् उद्युक्त: अभवत् | प्रवृत्त्त्तं तत् सर्वं दृष्ट्वा परीक्षाधिकारी अचिन्तयत् | किमाश्चर्यम् ! ते बालका: न जानन्तु नाम|  एष अध्यापक : अपि न जानाति इति विचिन्त्य सर्वान् उद्दिश्य रे मूर्खा: ! एतस्यापि स्वल्पस्य प्रश्नस्य समाधानं भवन्त: न जानन्ति ? अहो! ज्ञानशून्यता भवताम्  | भवादृशानां कारणत: एव विद्या व्यावस्था नितरां निस्तेजा  संजाता |  शृण्वन्तु भवन्त: | अहं वदामि | रामायणं  रामेण लिखितं भारतं तु भरतेन |

  

3 comments:

Outofmind said...

Do please give telugu /english translation for this. i got it bits and pieces but not completely. who at the end says that Ramayana is written by Rama and Bhaarata by Bharata?

Durga Prasada Rao Chilakamarthi said...

In a Village there was a school. once an inspector visited the school to have an idea about the standards of the students.He asked a question.who wrote the Ramayana? every body in the class began weeping but at the end there was a boy who dared to answer that he was not the author of The Ramayana. for this answer the teacher became angry and told the inspector" Sir, You don't know about him, He is very mischievous and always speaks lies. I Hope he might have written the Ramayana.If you beat him he will speak out the truth. This answer made the inspector very angry as he did not expect this type of answer from the very teacher who supposed to be an embodiment of knowledge. He fired at the teacher saying ''Because of you people the education system is ridiculed. don't you know even this small question? Ramayana was written by Rama and Bharata was written by Bharata.

Durga Prasada Rao Chilakamarthi said...

The inspector of schools who came to inspect the students.