Tuesday, January 23, 2018

Jokes n jokes

Jokes n jokes
1. मम स्थाने उपविशतु K

  एकदा कश्चन मन्दमति: स्वभार्यया सह आटोयाने गच्छन् आसीत् | तस्य भार्या रति: इव अतीव सुन्दरी आसीत् | अत: आटोवाहनस्य चालक: यानस्य दर्पणं इतस्तत: भ्रामयन् तस्या: मुखं पश्यन् वाहनं चालयति स्म | एतद्व्यवहारं दृष्ट्वा कृद्ध: मन्दमति: तं चालकम् उद्दिश्य  रे मूर्ख ! मां मा अज्ञानिनं भावयतु  || भवान् मम पत्न्या: मुखं पदे पदे पश्यन्नेवास्ति || अहं भवतां व्यवहारं सर्वं परिशीलयन्नेवास्मि || एष तव व्यवहार: नैव उचित:|| अहमेव यानं चालयामि || भवानत्र आगत्य मम स्थाने उपविशतु इत्युक्तवान् | K K K

2. सर्वस्यापि कुटुम्बस्य पोषणं  तेनैव क्रियते K K
एकदा एक: प्रप्रथमतया स्वमित्रस्य गृहं गतवान् || स: यजमानी गृहमागतं मित्रम् आदरेण स्वागतीकृत्य स्वकुटुम्बसभ्यान्  परिचयं कुर्वन् वदति एष: मम प्रथम: पुत्र: वैद्य: , अयं तु  द्वितीय: न्यायवादी , एष: तृतीय: इन्जनियर् अस्ति ||  अयं चतुर्थ: चोर: इत्युक्तवान् || तदा सर्वमाकर्ण्य स: अतिथि: मित्रं प्रति अरे! भवान् भवत: चुतुर्थपुत्रस्य परिचयं कुर्वन् अयं चोर: इति वदति , एवं रूपेण परिचयकरणे  भवत: लज्जा नास्ति किम् ? इति || तदा स: उक्तवान् किमर्थं लज्जा ? अद्य सर्वस्यापि कुटुम्बस्य पोषणं  तेनैव क्रियते  इति ||   
3. अहं जीवन्ती एवास्मि खलु KKK 
एकदा एक: जनगणनाधिकारी कस्याश्चित् गृहिण्या: गृहं गतवन् ||
 तस्या: गृहे निवसतां जनानां संख्यां पृष्टवान् || सा गृहिणी उक्तवती अहं , मम च इमौ  द्वौ पुत्त्रौ,  एष: प्रथम: सप्त वर्षीय:, अपर: च अयं पञ्चवर्षीय:||  मम पतिस्तु  दशवर्षात् पूर्वमेव दिवङ्गत: आसीत् इति || तदा अधिकारी पृष्टवान् भवती एव वदति भवत्या: पति: दशवर्षात् पूर्वमेव मरणं प्राप्तवानिति || एतौ द्वौ कथमागतौ ? इति || सा उक्तवती यद्यपि मम पति: मृत: अहं जीवन्ती एवास्मि खलु इति || अधिकारी निरुत्तर:  सन् तूष्णीं तत: प्रस्थित: ||  KKK   





No comments: