Tuesday, January 30, 2018

The date of Ramananda and his other works

The date of Ramananda and his other works                      रामानन्दस्य काल: इतरा: च कृतय:
        रत्नप्रभाकाराणामधिकालं कोविदानां नानामतान्यवलोक्यन्ते || दासगुप्तमहोदयेन रत्नप्रभाव्याख्यानकर्तु:  काल: चतुर्दशशतकमित्येकत्र (40) षोडशशतकमित्यन्यत्र च (41) निरुपित: दृश्यते || दासगुप्तमहोदयस्याभिप्राये रत्नप्रभाकर्ता गोविन्दानन्द:, रामानन्दस्तु विवरणोपन्यासकर्ता || कालश्च तस्य रामानन्दस्य सप्तदशशतकपूर्वभाग:|| (42) शारीरकमीमांसाभाष्यवार्तिकप्रणेता नारायणसरस्वति: रत्नप्रभाकर्तु:  सामयिक: सतीर्थ्यश्च  भवति || तस्य ग्रन्थ: गद्यमय: भाष्यस्य व्याख्यानरुपश्च भवति || नारायणसरस्वति: लघुचन्द्रिकाकारस्य   गौड ब्रह्मानन्दस्य गुरु: इति तस्य काल: A.D.1600 - A.D.1700 इति तङ्गस्वामिपण्डितै: निश्चितत्वात् (43) स एव काल: रत्नप्रभाकाराणामपि भवितुमर्हति ||
अपि च ब्रह्मविद्याभरणकर्ता  अद्वैतानन्दसरस्वति: रामानन्दसरस्वतीनां सकाशादुपात्तशारीरकमीमांसासूत्रभाष्य इति प्रागेव निरूपितम् || कालश्च तस्य 1762 A.D इति अनन्तकृष्णशास्त्रिणां  मतमनुसृत्य कार्ल. हेच. पोटर् पण्डितै: निरुपितम्  (44) || तथा च रामानन्द: तत्पूर्ववर्ती वा तत्सामयिकश्च वा भवितुमर्हतीति निश्चीयते ||
श्रीतङ्गस्वामिपण्डितै: रामानन्दस्य काल: 15701650 A.D इति निश्चित: (45) || तथा च पूर्वोक्तै: प्रमाणै: रामानन्द: सप्तदशशतकवर्ती  इति निश्चीयते ||
1.       रामानन्दसरस्वतीनाम् इतरा: कृतय:
1. विवरणोपन्यास: -- ग्रन्थोsयं विवरणमतसारांशरुप: || विवरण प्रस्थानग्रन्थेषु प्रायश: अयमेव चरमो ग्रन्थ: इति दासगुप्तपण्डिता: मन्वते (46) || ग्रन्थोsयं रत्नप्रभारचनाया: पूर्वमेव विरचित इति    विप्रतिपत्तीनां प्रपञ्चो  निरासश्च विवरणोपन्यासमुखेन  मया दर्शित: सुखबोधाय इतीहोपरम्यते इति रत्नप्रभावचनादवगम्यते | कैश्चन विवरणोपन्यासविवरणप्रमेयसंग्रहयोरैक्यमभिप्रेतम् | तन्न समीचीनं तयो: द्वयो: पार्थक्येनोपलभ्यमानत्वात् ||
2. वाक्यवृत्तिव्याख्या :-  
अमुद्रितोsयं ग्रन्थ: मद्रपुरराजकीयहस्तलिखितपुस्तकालये लक्ष्यते ||
वाक्यवृत्तिव्याख्याने रामानन्दीयेsयमर्थ: विस्तरेण प्रतिपादित: इति पूर्णानन्दीयवचनात् (50) ग्रन्थस्यास्य प्रणेतार: रामानन्दा: एवेति स्पष्टमवगम्यते || अस्यैव लघुवाक्यवृत्तिप्रकाशिकेत्यपरं नामेति श्री दासगुप्तपण्डित: (51) || वाक्यवृत्तिस्तु भगवत्पादकृतिरिति पण्डितानां विश्वास: ||            
3. ब्रहमामृतवर्षिणी :-
ब्रह्मसूत्रवृत्तिरुपात्मकोsयं ग्रन्थ: रत्नप्रभाकारैरेव विरचित इति पण्डितानामभिप्राय: || किन्त्वाधारा: नोपलभ्यन्ते ||  ग्रन्थयोरुभयो: प्रदर्शितं रामभक्त्यतिशयत्वमेवैकर्तृकत्वनिरुपणे हेतुरिति तेषां कथनम् ||  परन्तु नाsयं समीचीन: पन्था: || ब्रहमामृतवर्षिणीकारा: रामानन्दा: मुकुन्दगोविन्दश्रीचरणानां शिष्या: (52) || अतस्ते रत्नप्रभाकारेभ्यो भिना: इत्यवश्यं विज्ञेयम् ||
40.History of Indian Philosophy - Vol-II* page-81
41. Ibid p-103.
42. Ibid* p. 104
43. अ.वे.सा.को* p.71-72
44. Bibliography of Indian Philosophies * page-349
45. अ.वे.सा.को*पृ-282
46. H.I.P* vol II. page-103
47. र.प्र पृ-91
48. SiddhantalesaSangraha of Appayyadikshita * Vol-II. Roman and Sanskrit Text (Author Index) University of Madras-1933.
49. R. 2471.M.G.O.M.L.
50. पूर्णानन्दीयम्- पृ- 131.
51. H.I.P- vol-II.page- 80
52. ब्रह्मामृतवर्षिणी- पृ-402.


No comments: