Sunday, December 15, 2013

सम्पूर्णा विद्या षोडशकळापूर्णा भवेत्


सम्पूर्णा विद्या षोडशकळापूर्णा भवेत्

डाक्टर् . चिलकमर्ति दुर्गाप्रसादरावु
/१०६, प्रॆमनगर्, दयालबाग, आग्रा २८२००५
चलद्वाणी ०९८९७९५९४२५

विद्या मानवं जन्त्वन्तरेभ्य: पृथकृत्य तस्य विशिष्टं स्थानं कल्पयति | अत: न केवलमस्माकं देशे किन्तु सर्वस्मिन्नपि विश्वे विद्याया: समुन्नतं स्थानमस्ति| महाकविना भर्तृहरिणाप्युक्तम्
'विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भॊगकरी यशस्सुखकरी विद्या गुरूणां गुरु:
विद्या बन्धुजनो विदॆशगमने विद्या परा दॆवता
विद्या राजसु पूज्यते न हि धनं विद्याविहीन: पशु:' इति|
सम्पूर्णा समग्रा च विद्या षोडशकळापूर्णा भवति | तत्कथमिति विचारयाम:|
. विद्याया: चत्वार: स्तम्भा: ( . पितर: . विद्यार्थी ३. उपाध्याय: . सर्वकार:)
विद्यासौधस्यास्य चत्वार: स्तम्भा: सन्ति | .
() पितर: प्रथम: स्तम्भ:
माता च पिता च पितरौ | तौ उभौ अपि बालकस्य अथवा बालिकाया: गुरू भवत: | अत एव शतपथब्राह्मणं “ मातृमान् पितृमानाचार्यवान्पुरुषो वेद'' इति विद्याविषये मातापित्रो: समुन्नतं स्थानं कल्पयति| अत: स्वसन्तते: विद्याभिवृद्धिविषये ताभ्यां श्रद्धा विधॆया | नो चेत् तौ मातापितरौ एव न भवत: केवलं रिपू एव भवत: | उक्तं च हितोपदेशे| तथा हि :-
" माता शत्रु: पिता वैरी
येन बालो न पाठित:
न शोभते सभामध्ये
हंस मध्ये बको यथा " इति
अन्यच्च, बाल्ये बालकाय अथवा बालिकायै स्वपितृभ्यां मातृभाषायां या विद्या दत्ता भवति सा एव विद्या तदनन्तरविद्याया: आधारशिला भवति इत्यत्र नास्ति सन्देह: |
() विद्यार्थी द्वितीय: स्तम्भ:
बाल्ये विद्यार्थी विद्यार्जनादृते न किमप्यन्यं चिन्तयेत् | विद्यार्जनं नाम तप: | तत: विद्यार्जने ये ये विघ्नकारका: अंशा: भवन्ति ते सर्वे विना संकॊचं विद्यार्थिभि: त्याज्या‌: एव भवन्ति | 'श्रद्धावान् लभते ज्ञानम्' इति नियमेन य: गुरुवाक्यॆषु शास्त्रवाक्येषु च विश्वासं प्रदर्शयति स एव उत्तमं ज्ञानं लभते |
() उपाध्याय: तृतीय:स्तम्भ:
ज्ञानसागरस्य मूलश्रोत: गुरुरिति हेतो: उपाध्याय: सर्वेष्वपि स्तम्भेषु अनुत्तम: स्तम्भ: भवति |
अत: " आचार्यवान् पुरुषो वेद " इति भारतीयसंस्कृतौ आचार्यस्य सर्वोत्कृष्टं स्थानं समुपकल्पितम् | आचार्यस्य त्रीणि लक्षणानि निर्दिष्टानि सन्ति | () आचरति इत्याचार्य: | अर्थात् य: सदाचारं पालयति स: आचार्य: भवति | () आचारं ग्राहयति इति आचार्य: अर्थात् य: सदाचारं शिष्येभ्य: बोधयति स: आचर्य: भवति | () आचिनोति अर्थान् इत्याचार्य: अर्थात् य: विद्यार्थिनाम् उपयोगाय सदा ज्ञानस्य संचयनं करोति स: आचार्य: भवति इति | अत: गुरुणा सदैव विद्यार्थिनाम् श्रेय : मनसि निधेयम् | किन्तु इदानीं केषांचन गुरूणां प्रवृत्ति: तद्विपरीता चिन्ताकरी च वर्तते | अत एवोक्तं केनचन महानुभावेन|
" ददाति विद्यां न गुरुर्गरीयसीं
श्रुणॊति छात्र: न पुनर्गुरोर्वच:
उभावपि स्वार्थसमृद्धमानसौ
कथं स्वदेशस्य समुन्नतिर्भवॆत् ?'' इति |
अत: सदा गुरुभि: अध्यापनरतै: शिष्यप्रयोजनैकपरायणै: च भवितव्यम् |
() सर्वकार: चतुर्थ: स्तम्भ:
विद्यादानं, प्रचारश्च सर्वकारस्य कर्तव्यं भवति | पूर्वकाले राजा एव विद्याव्याप्ते: उत्तरदायित्वं स्वीकुरुते (वहति) स्म| रघुवंशे काळिदास: दिलीपस्य राज्यपालनविधानं वर्णयन् एवं वदति |
" प्रजानां विनयाधानाद्रक्षणाद्भरणादपि
स पिता पितरस्तासां केवलं जन्महेतव: ” इति |
स राजा दिलीप: प्रजानां शिक्षाया: आधानात् , सन्मार्गप्रवर्तनात्, आपन्निवारणात् अन्नपानादिभि: पोषणात् स एव तेषां सर्वेषां पिता अभवत् | तॆषां पितरस्तु केवलं जन्ममात्रकर्तार: एव अभूवन् | तथा च ज्ञानवितरणे सर्वकारस्योत्तरदायित्वं महदस्ति | किन्तु इदानीं केषुचिद्राज्येषु सर्वकार: विद्यावितरणव्ययं महान्तं भारं मनुते | तेन व्ययेन किं प्रयोजनम् ? इत्यपि चिन्तयति| एतन्न भाव्यम् | कुत इति चेत् एकस्य व्यक्ते: उपरि कृतस्य अथवा कारितस्य व्ययस्य प्रतिफलम् अनुपदमेव लब्धुं न शक्यते| उदाहरणार्थं वदाम: | यदि पिता स्वकीयबालकस्य पाठशालाया: प्रॆषणसमये एव ' एतॆन व्ययेन मम प्रयोजनं किम् ' इति चिन्तयति चेत् न कोSपि लाभ: भवति| यदा स: बालक: विद्यायां पारंगतो भूत्वा कंचित् उपाधिं लब्ध्वा पितरं प्रीणयति चॆत् तदा एव पिता स्वॆन कृतस्य विद्याव्ययस्य प्रतिफलमनुभवति | एवमेव समाजविषयेSपि | एकस्य समाजस्य कृते व्ययीकृतस्य धनस्य फलम् उत्तरकालीनसमाजे द्रष्टुं शक्यते | अत: सर्वकारेण विद्याव्याप्तये कृतस्य व्ययविषये संकुचितदृष्टि: न कदापि प्रदर्शनीया भवति |

. ज्ञानार्जनस्य चत्वार: उपाया: ( . श्रवणम्२. चिन्तनम् ३. चर्चा ४. अनुभव: )
यथा विद्या सौधस्य चत्वार: स्तम्भा:सन्ति तथैव विद्यॊपार्जने चतुर्विधा: उपाया: भवन्ति| तदुक्तं शास्त्रकारै:
" आचार्यात्पादमादत्ते
पादं शिष्य: स्वमेधया
पादं सब्रह्मचारिभ्य:
पादं कालक्रमेण च "
छात्र: स्वस्य उपाध्यायात् एकपादात्मकं (/) ज्ञानं लभते| अन्यं पादं (/) स्वमेधया वर्धयति | अपरं पादं (/) सहपाठकॆभ्य: चर्चया संपादयति | तदनन्तरं चतुर्थपादात्मकं ज्ञानं स्वीयानुभवॆन प्राप्नोति| तदा एव तस्य ज्ञानं परिपूर्णतां तनुतॆ|

. विद्या चतुष्प्रकारा (. शारीरकविकास:. मनॊविकास: . बुद्धिविकास: . आध्यात्मिकविकास:)
विद्याया: प्रयोजनं तु सम्पूर्णमानवविकास:| स च विकास: शारीरक: , मानसिक:, बौद्धिक:, आध्यात्मिकश्च भवति| शारीरकविकासात् मनोविकास:, मनोविकासाद्बुद्धिविकास:, तत: आध्यात्मिकविकास: इति क्रम:| वयं शारीरकविकासार्थं पुत्रॆभ्य: बलवर्धकान् विविधान् पदर्थान् खादयाम:| एवमेव मानसिकविकासार्थं तेभ्य: विनोदकार्यक्रमान् दर्शयाम: | तथैव बुद्धिविकासार्थं शास्त्रीयविषयान् पाठयाम: | किन्तु आध्यात्मिकविकासार्थं न किमपि कर्तुं पारयाम: वयम् | अत एव ते विद्यावन्तोSपि धीमन्तोSपि नीतिमन्त: न भवन्ति | अत: तेषाम् आध्यात्मिकविकासमपि अस्माकं परमं ध्येयं भवेत् | तदर्थं तात्विकविषयान् तेभ्य: श्रावयाम:, बोधयाम:, आध्यात्मिकचिन्तने प्रीतिमुत्पादयाम: | तान् लॊककल्याणकारिण: निर्माय लोकाय समर्पयाम: |

. विद्याया: चतस्र: दशा: ( . अध्ययनम् २. अध्यापनम् ३. आचरणम् ४प्रचारणम्)
विद्याय़ा: चतस्र: दशा: सन्ति| प्रथमम् अध्ययनम् | द्वितीयम् अध्यापनम् | तृतीयम् आचरणम् | चतुर्थं तु प्रचारणम् | भट्टहर्ष: नैषधकाव्ये नलमहाराजस्य विद्यावैशारद्यं वर्णयन् एवं वदति|

अधीतिबोधाचरणप्रचारणै:
दशाश्चतस्र: प्रणयन्नुपाधिभि:
चतुर्दशत्वं कृतवान् कुत:स्वयं‌
न वेद्मि विद्यासु चतुर्दशस्वयम् (/)

राजा नल: चतुर्दशविद्यानां चतुर्दशत्वं समुपकल्पितवान् | तथा च स: चतुर्दशविद्या: सम्यक् अधीतवान् , सुनिपुणं बोधितवान् , तासु विद्यासु यानि यानि जीवनमूल्यानि सन्ति तानि सर्वाणि स्वयं सुष्ठु आचरितवान् , तदनन्तरं तॆषां प्रचारणमपि कृतवान् इति ज्ञायते| एवं चतुर्दशविद्यानां चतुर्दशत्वं सम्पादितवान् | तथा च अस्माभि: विद्या अध्यॆतव्या, अध्यापयितव्या,आचरितव्या प्रसारयितव्या च भवति|
अत्र ज्ञानं अध्ययनेन, पाटवं बोधनेन, प्रयोजनम् आचरणेन, विकास: प्रचारणेन च सिध्यन्ति | तथा च समग्रा विद्या षोडशकलापूर्णा भवॆत् इत्यलमतिविस्तरेण |

No comments: