Sunday, December 15, 2013

हास्यकणिका


हास्यकणिका
डाक्टर् . चिलकमर्ति दुर्गाप्रसादरावु
/१०६, प्रेमनगर्, दयालबाग, आग्रा-२८२००५.
रोगी वैद्यं प्रति: वैद्यमहोदय! यदाहं निद्रां गच्छामि तदा स्वप्ने क्रिकेट् क्रीडा साक्षात्करोति | मम तु निद्राया: भंग: संजायते | अत: तन्निवारणाय किंचित् औषधं दीयताम् |
वैद्य: रोगिणं प्रति | एवं वा तर्हि स्वप्ननिवारकम् इमम् औषधम् अद्य स्वीकरोतु|
रोगी : महोदय! श्व: प्रभृति स्वीकरिष्यामि| अद्य न|
वैद्य: अद्य किमर्थं न स्वीक्रियते |
रॊगी : क्षम्यताम् वैद्यमहोदय! अद्य क्रिकेट् क्रीडाया: फैनल्स् इति ह्य: सूचितम्

No comments: