Sunday, December 15, 2013

तदृतॆ किं कर्तुं शक्नुयाम्​​?


तदृतॆ किं कर्तुं शक्नुयाम्​​?
डाक्टर् . चिलकमर्ति दुर्गाप्रसाद राव:
/१०६, प्रेमनगर, दयालबाग,
आग्रा २८२००५. .प्र
पूर्वकाले एक: महाराज: आसीत् | : न केवलं राजा | अपि तु स: स्वयं कवि: कविताप्रिय‌: कविपोषकश्च आसीत् | : स्वकीये राज्ये एकं शासनमपि निर्मापितवान् " मम राज्ये न कोSपि कवि: दुर्दशां प्राप्नुयात् | सर्वोSपि सुखेन जीवेत् | यदि य: कोSपि याचनेन जीवनं यापयति चेत् स: अवश्यं दण्डनार्ह: भविष्यति " इति | तस्य राज्ञ: कविताप्रियत्वं विज्ञाय बहव: कवय: नानादिग्भ्य: दिगन्तरेभ्य: च आगता: राज्ञा यथाकामं सम्मानिता: च अभवन्|
एकदा कश्चन कवि: राजदर्शनार्थम् आगतवान् | परन्तु तस्य राज्ञ: दर्शनं न लब्धम् | आहारोSपि न लब्ध: | निराहारत: किं कर्तव्यतामूढो भूत्वा याचनार्थं प्रवृत्त: राजभटै: निगृहीत: च अभवत् | भटा: तं राज्ञ: पुरत: उपस्थाप्य " हे राजन् ! एष: राजवीथ्यां भिक्षां याचते स्म | अतो दण्डनार्ह: इति मत्वा निगृहीत: भवतां पुरत: आनीत: च ” इत्युक्तवन्त: | राजा तस्य मुखं दृष्ट्वा उक्तवान् " अयि भो! भवान् दृढकाय: सन्दृश्यते | अंगवैकल्यम् अपि नास्ति भवताम् | किमर्थं याचनावृत्तिमवलम्बसे? किं लज्जा नास्ति भवताम् ?” इति पृष्टवान् |
: अपि राजानं नमस्कृत्य एवं समाधानं दत्तवान् | हे राजन्! अहं वस्तुत: न याचक: | किन्तु महान् शिवभक्त: अस्मि| मम दुस्स्थितिं पश्यतु कृपया|
    मम प्रियदैवतस्य शिवस्य अर्धंभागं भगवान् विष्णु: स्वीकृत्य गतवान् | स्वयं हरिहरनाथ इति प्रसिद्धिं प्राप्तवान्| शिष्टं च अर्धभागं पार्वती स्वीकृत्य गतवती| अर्धनारीश्वत्वं प्राप्तवती | तत: समस्तं च विश्वं शिवरहितम् अभवत् | तदा तम् आधारीकृत्य निवसन्त: सर्वे निराधारा : च अभवन् | गंगा यथाकथंचित् सागरं प्राप्तवती | चन्द्रकला आकाशं गतवती | शेष: भूलोकं प्रविष्टवान् | किं च शिवाश्रिता: त्रय: गुणा: सन्ति | ते च क्रमश: सर्वज्ञत्वं , अधीश्वरत्वं भिक्षाटनं च | तेSपि निराधारा : अभवन् | किन्तु तेषु आद्यौ द्वौ अर्थात् सर्वज्ञत्वम् अधीश्वरत्वं च भवन्तम् आश्रितवन्तौ | किन्तु अन्तिमो गण‌: ( भिक्षाटनम्) निराश्रयं माम् आश्रित्य तिष्ठति | अहं किं करोमि राजन् ! | भवानेव विचारयतु इति उक्तवान् | तस्य महाकवे: चतुरोक्त्या नितरां सन्तुष्ट: राजा अक्षरलक्षं समर्प्य सम्मानितवान् | इयन्तं रुचिरार्थं स्वगर्भे निक्षिप्तवन्तं तं श्लोकम् एकवारं पठाम: |
  • अर्धं दानववैरिणा गिरिजयाप्यर्धं हर्स्याहृतं
    देवॆत्थं जगतीतले स्मरहराभावे समुन्मीलति
    गंगा सगरमम्बरं शशिकला शेषश्च पृथ्वीतलं
    सर्वज्ञत्वमधीश्वरत्वमगम त्त्वां मांभिक्षाटनम् |
    >>>

No comments: