Sunday, December 15, 2013

गृहे समतला परन्तु पाठशालायां गॊळाकारा एव


गृहे समतला परन्तु पाठशालायां गॊळाकारा एव
डाक्टर् .चिलकमर्ति दुर्गाप्रसादरावु
/१०६, प्रॆम नगर्,
दयालबाग, आग्रा-२८२००५ उ.प्र
कश्चन छात्र: विद्यालये यत् पाठितम् तत् गृहे अपठत् 'भूमि: गॊळाकारा अस्ति' इति| विद्याहीन: तस्य पिता एतत् श्रुत्वा पुत्राय एकां चपेटिकां दत्वा अवदत् ' रे मूर्ख ! भूमि: समतला एव नतु गॊळाकारा| समतलत्वाभावे जना: भूमौ कथं वसॆयु: ? अत: भूमि: समतला एव इति |
पाठशालां गत: पुत्र: अध्यापकॆन पृष्ट: सन् अवदत् 'भूमि: समतला अस्ति' इति | एतत्
श्रुत्वा अध्यापक:नितराम् क्रुद्ध: सन् एकां चपॆटिकां दत्वा ' रे मूर्ख‌!ह्य: मया पाठितं किं विस्मृतं त्वया ? ' भूमि: गोळाकारा एव , न तु समतला' इति पुनरप्यबोधयत् | छात्र: गृहम् आगत्य पुन: पठति 'भूमि: गोळाकारा' इति| पिता पुन: चपेतिकां दत्वा उक्तवान् "भूमि: समतला इति यत् मया उक्तं तत् किं त्वया विस्मृतम् ? इति | छात्र: पाठशालां गत्वा पुन: पठति ' भूमि: समतला अस्ति इति | अध्यापक: पुन: एकवारं चपेटिकां दत्वा उक्तवान् भूमि: गोळकारा इति | तदा मुखस्य उभयपार्श्वत: जायमानां बाधाम् असहमान: छात्र: पठति " भूमि: गृहे समतला परन्तु पाठशालायां गोलाकारा एव इति|

No comments: