Tuesday, October 21, 2025

A Study of Ratnaprabha – 32

                                                         A Study of Ratnaprabha – 32

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम् 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

                                                  समन्वयाधिकरणम् 

अस्मिन् समन्वयाधिकरणे 1.ब्रह्मण: शास्त्रप्रमाणकत्वे  भाट्टमीमांसकानां  पूर्वपक्ष:,

तत् खण्डनम् ;  2. वृत्तिकारपूर्वपक्ष:, तन्निरास: ; 3. प्राभाकरमीमांसकानां पूर्वपक्ष:, तन्निराकरणं;  4. मोक्षस्वरूपादिकं च विवृतानि भाष्यकारै: ||

{A} ब्रह्मनास्तिकत्वे तुल्येsपि भाट्टमते   सिद्धे पदानां शक्ति: , प्राभाकरमते कार्यान्विते शक्ति: ||

{B} कार्यान्विताsर्थे शक्तितौल्येsपि वृत्तिकारमते ब्रह्माsस्तित्वाsनङ्गीकारेण मतत्रैविध्यमिति विज्ञेयम् ||

                   मीमांसकेषु सांप्रदायद्वयं वर्तते || भाट्टसंप्रदाय: प्राभाकरसांप्रदायश्चेति || तत्र भाट्टा: अभिहितान्वयवादिन:, प्राभाकरास्त्वन्विताभि धानवादिनश्च || उभावपि कर्मप्राधान्यवादिनाविति कर्ममीमांसकावेव || पदेभ्य: प्रतिपन्नानां पदार्थानां संसृष्टपरस्परार्थान्वायबोधनमभिहितान्वयो नामेति विवरणाचार्य: (पञ्चपादिकाविवरणम्-page776) ||

एतन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव  पदन्याकाङ्क्षादिसहकृतया तत्तत्पदाव्युत्पत्त्यैव शक्त्या लक्षणया वा परस्परान्वितं विशिष्टार्थं बोधयन्ति || विशिष्टार्थबोधनेsतिरिक्ताया: वाक्यशक्ते: अपेक्षा नास्तीत्यर्थ: || अयमेव वाक्यार्थबोध: शाब्दबोध: इति चोच्यते || किञ्च “ज्योतिष्ठोमेन स्वर्गकामो यजेत“ इत्यादौ तप्रत्यय: प्रकृत्यर्थोपरक्तां भावनामभिधत्ते इति

सिद्धे व्युत्पत्तिमिच्छतां भाट्टाचार्याणामभिप्राय: ||  

प्रकृते ब्रह्मण: शास्त्रयोनित्वविषये भाट्टा: पूर्वपक्षं             

कुर्वन्ति || तेषामभिप्राय: “कथं पुन: ब्रह्मण: शास्त्रयोनित्वमुपपद्यते” इत्यारभ्य “तस्मान्न ब्रह्मण: शास्त्रयोनित्वमित्यन्तम् “ अनूदितं भगवत्पादै: || तेषामभिप्रायसारांश: अस्माभि: प्रपञ्चीक्रियते ||

तथा हि :- ब्रह्मण: शास्त्रयोनित्वं नोपपद्यते || तथा हि :-

प्रवृत्तिनिवृत्तिपरं हि शास्त्रम् ||उक्तञ्च ||

“प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा

पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते” इति ||

तद्यथा :- “यजेत स्वर्गकाम:” “न कलञ्जं भक्षयेत्“ ”नाsनृतं वदेत् “ इति विधिप्रतिषेधात्मकं शास्त्रमुपलभ्यते || तन्निहित अर्थात् विधिसन्निहितार्थवादवाक्यानां विधिवाक्यैकवाक्यत्वं संपाद्य प्रामाण्यं निर्वाह्यते || “ स्वाध्यायोsध्येतव्य:” इति अध्ययनविधिगृहीतस्य सर्वस्याsपि वेदस्य प्रामाण्यमवश्यं संपादनीयम् || “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्”(जै .सू . 1-2-1) ||

तस्मादनित्य उच्यते “ इति जैमिनीयसूत्रम् || तस्याsयमर्थ: || अम्नायरूपवेदस्य क्रियार्थत्वात् = कार्यपरत्वात् ; अतदर्थानाम् = अक्रियाबोधकपदानां;

आनर्थक्यं = अप्रामाण्यं तस्मादनित्यत्वमुच्यते इति पूर्वपक्षसूत्रमिदम् || तत्र “ दृष्टो हि तस्यार्थ: कर्मावबोधानम् “ अर्थात्  तस्य = वेदस्य ,अर्थ: = प्रयोजनम् , यत्कर्मावबोधनम् = कर्तव्यबोधनमेव || एतदर्थबोधकशाबरभाष्यञ्च वेदस्य प्रवृत्तिनिवृत्ति परत्वमेव बोधयति || तत्र सिद्धान्तसूत्रम् ||     

  विधिनात्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्यु: (जै.सू *1-2-7) इति || एकवाक्यत्वात्   विधीनां विधेयानां स्तुत्यर्थेन विधिना = विधिवाक्येन एकवाक्यत्वात् = एकविषिष्टार्थबोधकत्वात् स्यु: अर्थवादा: सफला: स्यु: इति || तथा च अर्थवादानां विधेयस्तावकत्वेनैव प्रामाण्यं संपाद्यते || न तु संबन्धमन्तरेणार्थवादानां प्रामाण्यं संभवति || यथा “वायव्यं श्वेतमालभेत भूतिकाम: ” इति विधिवाक्य सन्निहितानां   “वायुर्वै क्षेपिष्ठा देवता”इत्यादीनामर्थवादानां विधिवाक्यैकवाक्यत्वं पूर्वपक्षगन्थे  भगवत्पादैरपि प्रदर्शितम् || एवं बर्हिषि रजतं न देयम् इति निषेधवाक्यसमीपस्थ  “सोsरोदीत्“,   “यदरोदीत्“ इत्यादिनिन्दार्थवाक्यानां  

निषेध्यनिन्दापरत्वेन प्रामाण्यं संपाद्यते || तथा च  “सत्यं ज्ञानमनन्तं ब्रह्म” “आत्मैवेदं सर्वम्” “ब्रह्मैवेदं सर्वम् “ नित्यं विज्ञानमानन्दं ब्रह्म “ “ तरति शोकमात्मा वित् “प्रज्ञानं ब्रह्म“ इत्यादि वेदान्तवाक्येषु पूर्वं वा परं वा  विधिर्नोपपद्यते || तथा च विधिसंबन्धविरहितानामेतेषां वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिफलत्वाsभावात् केवलसिद्धबोधकत्वेन प्रामाण्यं न संभवति || अत: एतेषां वाक्यानां  प्रामाण्यसंपादनाय देह्न्द्रियसंघाता तिरिक्ताsत्मज्ञानं प्रवृत्तौ, निवृत्तौ च उपयुज्यते ||

तथाहि:- देह एव चेदात्मा आमुष्मिकफलप्रदकर्माणि न प्रवर्तन्ते || देहस्य नाशेन देहरूपात्मन: नष्टत्वात्  || कालान्तरभाविस्वर्गभोक्तृत्वं तस्य न संभवतीति तादृशकर्मसु न प्रवर्तेत || एवं कालान्तरभाविनरकदु: खप्रदनिषिद्धकर्मभ्य: न निवर्तेत ||

 अत: विहितकर्मप्रवृत्त्यर्थं, निषिद्धकर्मनिवत्त्यर्थं देहेन्द्रि यसंघाताsतिरिक्तस्याssत्मनो ज्ञानमावश्यकम् || तथा च आत्मा वा अरे द्रष्टव्य: “ इत्यत्र  आत्मा देहेन्द्रियातिरिक्तत्वेन द्रष्टव्य: इत्यर्थो वक्तव्य: ||

“ ब्रह्मविदाप्नोति परम् “ इत्यादिकं त्सावकं आत्मज्ञानं स्थावकमेवेति वक्तव्यम् || एवञ्च शस्त्रप्रमाणकत्वं ब्रह्मण: न संभवतीति प्राप्ते तत्समाधानार्थं “तत्तु समन्वयात् “ इति सूत्रम् ||        
----अनुवर्तते------
          

No comments: