A Study of Ratnaprabha-Part-17
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
Author:
DR. CHILAKAMARTHI
DURGA PRASADA RAO,
गताङ्कादग्रे....
-: प्रत्यक्षादीनां प्रमाणानाम् अविद्यावद्विषयत्वनिरूपाणम्
:-
एतावत्पर्यन्तम् अध्यासलक्षणं , तत्संभावनाविषये पूर्वपक्षसिद्धान्तादिकञ्च
प्रदर्शितम् || इदानीं प्रमाणपर भाष्यमारभ्यते || भगवतपादा: अध्यास लक्षणं,
तत्संभावनां च निरूप्य, लौकिका:, वैदिकाश्च सर्वे प्रमाणप्रमेयव्यवहारा: अध्यासवशेनैवेति
प्रतिपादयामासु: || अत्र कथम् अविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि
शास्त्राणि च इति पूर्वपक्षे प्राप्ते , सिद्धान्ते भगवत्पादै:
प्रत्यक्षादीनामविद्यावद्विषयत्वं “ देहेन्द्रियादिषु ” इत्यादि वाक्यै: निरुपितम्
|| तस्येदं रत्नप्रभाविवरणम् --- तथा हि :-
मनुष्यादीनां देहे ‘अहम्’ इत्यध्यास:, तत: इन्द्रियाणि ममत्वेन स्वीकृत्य ‘अहं द्रष्टा’, “ अहं श्रोता ” “ अहं अनुमाता ” इत्यादिरूपो व्यवहार: || इन्द्रियादिषु ममेति अध्यासाsभावे द्रष्ट्रत्वादिव्यवहार
एव न संभवति || इन्द्रियाणामधिष्ठानं शरीरमेव || “असङ्गो ह्ययं पुरुष:” (
बृ.उ.(6.4.3.15) इत्यादिश्रुत्या आत्मनोsसंगत्वात् देहात्मनो: संबन्ध; आध्यासिक एव ||
अत्र पुर्वपक्षी पुनरेवमाशंकते || आत्मन: देहादिभि: आध्यासिकसंबन्धो माsस्तु
स्वतश्चेतनतया प्रमातृत्वोपपत्ते: , सुप्तौ न प्रमातृत्वापत्ति: कारणोपरमादिति ||
अत्र सिद्धान्ते उक्तं रत्नप्रभाकारै: || अत्र प्रमा नाम का वृत्तिसंबन्धरहिता चिद्रूपा
वा, चित्संबन्धरहितवृत्तिर्वा, आहोस्विद्विशिष्टा वा इति || परमा यदि नित्यचिन्मात्रं
तर्ह्याश्रयत्वायोग: करणवैय्यर्थ्यम् च ||
यदि प्रमा केवलवृत्तिमात्रं स्यात् तर्हि
वृत्ते: जडत्वात् जगदान्ध्यप्रसंग: || अत: वृत्त्यभिव्यक्तबोध: प्रमा इत्यवश्यमङ्गीकर्तव्यम्
|| तच्च
वृत्तिमनस्तादात्यं विना असङ्गस्यात्मन: न संभवतीति तदर्थं देहाध्यास:
तद्धर्माध्यासश्चावश्यमङ्गीकर्तव्य: || अपि च आत्मन: प्रमातृत्वाsभावे प्रमाणं न
सिध्यतीति , अध्यासाsभावेsसंगस्यात्मन:
प्रमातृत्वं नास्तीति , आत्मन: प्रमातृत्वादिव्यवहारार्थम्
अध्यासोsवश्यमङ्गीकर्तव्य: || तस्मादविद्यवद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ||
अत्र पुन: इयमाशङ्का ||
यत्राध्यास: तत्र व्यवहार: यत्राध्यासाभाव: तत्र व्यवहाराभाव: इति
अन्ययव्यतिरेकाभ्यां व्याप्तिरुच्यतेsध्यास व्यवहारयो: तदसङ्गतम् कार्य विदुषामध्यासाभावेsपि व्यवहारो
दृश्यते एव इति ||
अत्र सिद्धान्ते उच्यते भगवत्पादै: “ पश्वादिभिश्चाsविशेषात् इत्यादि ||
विवेकिनोsपि अध्यासवन्त: व्यवहारवत्वात् पश्वादिवदिति तस्यार्थ: || अत्र कार्यविदुषाम् अध्यासाभावेsपि व्यवहार:
दृश्यते एवेति वदतां पूर्वपक्षिणामाशय: एवं निराक्रियते रत्नप्रभाकारै: || तथा हि :-
किन्नाम विद्वत्त्वम् ? ब्रह्माsस्मीत्यात्मसाक्षात्कारो वा अथ वा यौक्तिकमात्रात्माभेदज्ञानं
वा ||
यदि विद्वत्वमात्मसाक्षात्कार: चेत् तर्हि बाधिताध्यासानुवृत्त्या व्यवहारस्तेषाम्
|| तथा हि :- अपरोक्षज्ञानेनाभासीकृतोsध्या स: बाधिताsध्यास: || तेषाम्
अध्यास: न बन्धहेतु: भवति || परन्तु व्यवहारोsनिवार्य एवेति ||
अत्र विषेषेणोक्तं पूर्णानन्दीये || तथा हि:- आवरणे निवृत्तेsपि ‘पीत: शङ्ख:’
इति वत् वासनात्मकविक्षेपशक्त्यंशानुवृत्ते: जीवन्मुक्तानां वसिष्ठादीनां
व्यवहारोsध्यासजन्य एव || परन्तु तदीयाsध्यासस्य
बाधितत्त्वात् न तत्कारण व्यवहारस्य बन्धहेतुत्वम् इति (पूर्णानन्दीयम् -पृ -58) ||
अनुवर्तते ......
No comments:
Post a Comment