Sunday, October 5, 2025

A Study of Ratnaprabha-Part-18

 

 A Study of Ratnaprabha-Part-18

रत्नप्रभाविमर्शे तृतीयोsध्याय:

{Ratnaprabhaa vimarsha} 

Author: 

DR. CHILAKAMARTHI DURGA PRASADA RAO,

 

गताङ्कादग्रे.... 

यदि पुन: विद्वत्वं केवलं यौक्तिकमात्मानात्मज्ञानं चेत् तर्हि परोक्षज्ञानस्याsपरोक्षभ्रान्त्यनिवर्तकत्वात् विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात्,  अध्यासवत्त्वेनोभयो स्तुल्यत्वात्, व्यवहारो अध्यासकार्य: एव || अत्र प्रवृत्तिविषये मनुष्याणां पश्वादिभ्योsविशिष्टत्वं सदृष्टान्तं

प्रदर्शयन्ति भगवत्पादा: || तथा हि :- पश्वादय: शब्दादिभि: श्रोत्रादीनां संबन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते अनुकूले च प्रवर्तन्ते || यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य मां हन्तुमयमिच्छतीति पलायितुमारभन्ते , हरिततृणपूर्णपाणिमुपलभ्य तं प्रत्यभिमुखी भवन्ति || खड्गोद्यतकरान् बलवत: उपलभ्य ततो निवर्तन्ते तद्विपरीतान् प्रति प्रवर्तन्ते || अत: समान: पश्वादिभि: पुरुषाणां प्रमाणप्रमेयव्यवहार: || तत्सामान्यदर्शनात् व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्काल: समान इति निश्चीयते” इत्यादि (ब्र.सू. शाङ्करभाष्यम्- page-58-60)

एवमेव लौकिकव्यवहार इव शास्त्रीय व्यवहारोsपि आध्यासिक एव || तथा हि:- यद्यपि लौकिककर्मण: देहोऽहमिति अध्यास जन्यत्वाभावेsपि “क्षुत्पिपासादिग्रस्तो जाति विशेषवानाहम्” “ अहं संसारी ” इत्यध्यासजन्यत्वमस्त्येव नोचेत्कर्मणि प्रवृत्त्यनुपपत्ते: || आगमोsपि “ब्राह्मणो यजेत”, “ न ह वै स्नात्वा भिक्षेत ”, अष्ट वर्षं ब्राह्मणमुपनयीत ”,  “कृष्णकेशो अग्नीनादधीत ” इत्यादि ब्राह्मणादिपदै: अधिकारिणं  वर्णाद्यभिमानिनमनुवदन् अध्यासं गमयत्येवेति भगवत्पादानामभिप्रायस्य रत्नप्रभाविवरणम्  || तथा च सर्वे व्यवहारा: लौकिका: एवेत्यवश्यमभ्युपगन्तव्यम् || अथाध्यास; कस्य ? कुत्र ? इत्याशङ्कायाम् उच्यते भगवत्पादै: ||

तद्यथा  पुत्रभार्यादिषु विकालेषु सकलेषु वा सत्सु अहमेव विकल: सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतीति बाह्यधर्माध्यास: ||

एवं “स्थूलोsहम्” इत्यादिषु देहगत स्थूलादिधर्मान् आत्मन्यध्यस्यतीति अयं देहधर्माध्यास: ||

तथा “मूकोsहम्” इत्यादिषु इन्द्रियधर्मान् मुकत्वादीनात्मन्यध्यस्यतीत्ययमिन्द्रिय धर्माध्यास: || एवमेव “काम्यहम्”, “ संकल्पवानहम् ” इत्यादिषु कामाद्यन्त: करणधर्मान् आत्मन्यध्यस्यतीत्ययमन्त: करणाध्यास: ( काम:, संकल्प:, विचिकित्सा, श्रद्धा, अश्रद्धा, धृति:, अधृति:, ह्री:, धी:, भी:, इत्येतत्सर्वं मन एव ( बृ. उ * 1-5-3) अत्र धीशब्देन वृत्तिरुप ज्ञानाभिधानात् कामादेरापि मनोधर्मत्वम् ) || एवमहमित्यध्यासेsपि आत्मनि बुध्याद्यध्यासात् कर्तृत्वादिलाभ:,  बुध्यादावात्माsध्यासात् चैतन्यलाभ: इति परस्पराध्यासेनैव व्याहार: इति रत्नप्रभाकार: ( रत्नप्रभा -page -63)

एवामध्यासोsनाद्यविद्यात्मकातया अनादि: || अध्यासात् संस्कार: , संस्कारादध्यास: प्रवाहतो नैसर्गिकत्वमस्याध्यासस्य || ज्ञानं विना ध्वंसाभावादानन्त्यम् || उक्तं च गीतायाम् – “न रूपमस्येह तथोपलभ्यते नाsन्तो न चाsदि: न च संप्रतिष्ठा” (15/3) इत्यादि ||

अध्यासस्य मिथ्याज्ञानकल्पितत्वात् , मिथ्याप्रत्ययरूप: || यदा अध्यास: तदा व्यवहार: इति न्यायात् अयमध्यास: कर्तृत्व भोक्तृत्वप्रवर्तक: || सर्वयापि प्रपञ्चस्य अध्यासात्मकत्वादयं सर्वलोकप्रत्यक्ष: ||

एवं चाध्यासस्याविद्याकल्पितकर्तृभोक्तृ त्वादिसंबन्धहेतुत्वात् , बन्धस्य ब्रह्मात्मैकत्वविद्यानिवर्त्यत्वाच्च , अध्यासस्वरुपनिरुपणानन्तरं ब्रह्मस्वरूप प्रतिपादनाय जिज्ञासाधिकरणमारभ्यते भगवत्पादै: ||                                                                  

 अनुवर्तते ...

No comments: