A
Study of Ratnaprabha – 31
रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO,
Bhasha praveena , Vedanta vidya Praveena,
M A (Sanskrit), M A (Telugu), M A (Philosophy)
& Ph D
(Sanskrit)
-: अधिकरणरचना
:-
मोक्षसाधनीभूतब्रह्मज्ञानाय
श्रवणात्मकवेदान्तविचार: कर्तव्य: इति प्रथमसूत्रेणोक्तम् |
द्वितीयसूत्रेण
विचारणीयब्रह्मण: लक्षणादिकमुक्तम् || तस्य ब्रह्मण: जगत्कारणत्वेन अर्थानुलब्धं सर्वज्ञत्वं शास्त्र प्रमाणकत्वञ्च
तृतीयसूत्रेणोक्तम् || तच्च शास्त्रप्रमाणकत्वं ब्रह्मण:
कथमित्याशंकायां ब्रह्मप्रतिपादकै: वेदान्ताभिधैर्वेदभागै: ब्रह्म प्रतिपाद्यते
इति वेदान्तानां समन्वय: कर्तव्य: इति तदर्थं समन्वयाधिकरणमारभ्यते ||
अस्याधिकरणस्य
मूलभूतं सूत्रं “ तत्तु समन्वयात् ” इति || किन्तु तद्ब्रह्म
वेदान्तात् स्वातन्त्र्येणैवावगम्यते न तु कर्तृ देवतादिप्रतिपादनद्वारा
कर्मशेषतया उपासनाङ्गतया वा इति सूत्रस्याsस्य सारभूतोsर्थ: ||
“सदेव सोम्य इदमग्र आसीत्” (छा.उ* 6.2.1)
सत्यं ज्ञानमनन्तं
ब्रह्म (तै*उ-2.1.1.) इत्यादीनि विषयवाक्यानि ||
वेदान्तानि
कर्तृदेवतादिप्रतिपादनद्वारा कर्माङ्गतया ब्रह्म प्रतिपादयन्ति उत स्वातन्त्र्येण वा इति संशय: ||
वेदान्तानि
साक्षाद्ब्रह्म न प्रतिपादयन्ति, तत्प्रतिपादने
पुरुषा र्थाsभावात् || किन्तु परम्परया
कर्मापेक्षितकर्तृ देवतादिप्रकाशनार्थत्वेन ब्रह्म प्रतिपादयन्ति इति पूर्व पक्ष: ||
वेदान्तवाक्यानि
कर्मकाण्डान्तर्भूतानि न भवन्ति, किन्तु तद्भिन्नान्येव || अपि च वेदान्तानि उपक्रमादिषड्विधलिङ्गै: ब्रह्मैव प्राधान्येन (तात्पर्येण )
प्रतिपादयन्ति || किञ्च तत्प्रतिपादनेनाsर्थनिवृत्तिरूपप्रयोजनस्य सत्त्वात् तन्न व्यर्थं भवतीति
सिद्धान्त: ||
पूर्वसूत्रद्वितीयवर्णकेन
(शास्त्रं योनि: यस्य शास्त्रयोनि: तस्मात् शास्त्रयोनित्वात् ) इति आक्षेपस्य
सत्वादाक्षेपसंगति: ||
द्वितीयवर्णके
कृत्स्नवेदान्तशास्त्रमधिकरणस्य विषय: ||
वेदान्तानि “ आत्मा वा अरे द्रष्टव्य:” इत्यादीनि किमुपासना विधिं बोधयन्ति उत ब्रह्म साक्षात्कारे वा तेषां
तात्पर्यमिति संशय: ||
“आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” इति नियमेन कृत्स्नस्य वेदस्य विधिपरत्वात्, वेदान्तवाक्येष्वपि “श्रोतव्यो मन्तव्य:” इत्यादि वाक्येषु च विधिदर्शनात् “श्रोतव्य” इत्यादि वाक्यानि उपासनाविधायकानि इति पूर्वपक्ष:” ||
यत् कर्त्रधीनं न भवति तस्मिन् विधिर्न संभवति ||
वेदान्तेषु “दशम: त्वमसि”
इत्यादिसिद्धवस्तुबोधकान्यपि वाक्यानि सन्ति || शब्दबोधनात्प्राक् प्राप्तस्याsसंभावना – विपरीतभावनयोर्निवृत्तये व्यापाररूपकर्तृतन्त्रं मनननिदि ध्यासनानां विधानम् || परन्तु एतेषां तात्पर्यं सिद्धवस्तुनि ब्रह्मण्येव || तदुक्तं
लघुवार्तिके : -
न प्रतीचि ब्रह्म
दृष्टिं विद्यते तत्त्वमादिके
नाप्युपास्ति विधेश्शेषं
ब्रह्मात्मैक्यं प्रमापयेत्त् ||
इत्यादि ( रत्नप्रभा -यतिवर श्री बोलेबाबा विरचितेन भाष्यरत्नप्रभाभाष्यानुवादेन च समल्न्कृता -page. 133) पूर्वाधिकरणमत्र प्रसंगसंगति:
...अनुवर्तते ....
No comments:
Post a Comment