Friday, October 31, 2025

A Study of Ratnaprabha –36

 

 A Study of Ratnaprabha –36

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

-: वृत्तिकारमतखण्डनम् :-

 

सिद्धान्ते भगवत्पादा: कर्मब्रह्मविद्याफलयो: वैलक्षण्यं प्रदर्शयन्ति ||

कर्म तावत् शारीरं, वाचिकं, मानसं, चेति त्रिविधं श्रुतिस्मृतिसिद्धम् || तत्स्वरूपन्तु “अथाsतो धर्मजिज्ञासा” इत्यादिसूत्रै: प्रतिपादितम् || अथ= वेदाध्ययनानन्तरं , अत: = वेदस्य फलवदर्थपरत्वात् , धर्मनिर्णयाय कर्मवाक्यविचार: कर्तव्य: इति सूत्रस्याsर्थ: || अपि च यथा प्रवृत्तये धर्मो जिज्ञास्य: तथैवाsधर्मोsपि परिहाराय जिज्ञास्य: भवति || धर्माsधर्माद्यनुष्ठानस्य शरीरवाङ्मनोभि मानानिमित्तत्वात् तत्फलमपि शरीरविशेषाद्यभिमाननिबन्धनमेवानुभूयते || एवं च धर्मानुष्ठानफलस्य  शरीरवाङ्मनोभिरुपभुज्यमानत्वं, सातिशयत्वं, तारतम्यत्वं च दरीदृश्यते || तथा हि:- मनुष्यादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते (अत्राsनुश्रूयते इत्यत्र श्रुतेरनुभवानुसारित्वमनुशब्दार्थ: इति रत्नप्रभा -page-146) “स एको मानुष आनन्द: तत: शतगुण: गन्धर्वादीनामानन्द: (तै.उ*2.8)        इत्यादि श्रुतयोsत्र प्रमाणम् || सुखतारतम्यात् तद्धेतो: धर्मस्य तारतम्यं गम्यते || धर्मतारतम्याच्चाsधिकारितारतम्यम् || अपि च यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् || केवलैरिष्टापूर्तदत्तसाधनै:    

 ( अग्निहोत्रं तपस्सत्यं वेदानां चाsनुपालनम् |

आतिथ्यं वैश्वदेवं च ‘इष्ट’मित्यभिधीयते ||

वापीकूपटाकादिदेवतायतनानि च |

अन्नप्रदानमाराम-‘पूर्त’मित्यभिधीयते ||

शरणागतसंत्राणं भूतानामप्यहिंसनम् |

बहिर्वेदि च यद्दानं‘दत्त’मित्यभिधीयते || (रत्नप्रभा page -147)

 धूमादिक्रमेण दक्षिणेन पथा गमनम् || किं चैतादृशकर्मप्राप्तचन्द्रलोकेsपि सुखस्य नश्वरत्वं “यावत्संपातमुषित्वा” (छा.उ*5.10.5) इत्यादि श्रुतिभि: “क्षीणे पुण्ये मर्त्यलोकं विशन्ति” ( भगवद्गीता- IX-21) इत्यादि स्मृतिभि: “काष्टोपचयाज्ज्वालोपचय:”

इति न्यायैश्चावगम्यते ||

एतादृशसुखदु:खात्मकं, तारतम्योपेतमनित्यं, संसाररूपमनुभूय प्रवर्तन्ते ब्रह्मादि स्थावरान्तास्सर्वे || एवं भगवत्पादा: कर्मण: सुखदु:खात्मकत्वं प्रतिपाद्य “ न ह वै सशरीरस्य सत: प्रियाsप्रिययोरुपहतिरस्ति” इति श्रुत्या  सशरीरस्यैव दु:खाsनुभवं प्रतिपाद्य “ अशरीरं वा वसन्तं न प्रियाsप्रिये स्पृशत:” (छा.उ*8.12) इत्यादिभि: अशरीरस्य सुखदु:खराहित्यं प्रदर्शितम् ||

अत्र ‘अशरीरत्वं’ नाम किमित्याशंकायां तत् धर्मकार्यमेवेति पूर्वपक्षे प्राप्ते तस्य स्वाभाविकत्वात् न धर्मकार्यत्वमिति सिद्धान्तितं भगवत्पादै: || “आत्मन: देहाsसङ्गित्वमशरीरत्वम्” इति रत्नप्रभा(रत्नप्रभा-page-149) ||

आत्मनोsसंगत्वात् तस्याsशरीरत्वं स्वाभाविकं न कर्मप्राप्यमिति भाव: ||

तथा च श्रुति: ||

अशरीरं शरीरेषु  अनवस्थेष्ववस्थितम्

महान्तं विभुमात्मानं मत्वा धीरो न शोचति” इति ||      तस्यायं रत्नप्रभाप्रतिपादितोsर्थ: || तथाहि:- अशरीरं = स्थूलदेहशून्यं देहेष्वनेकेष्वनित्येषु एकं नित्यम् अवस्थितं महान्तं व्यापिनं तमात्मानं ज्ञात्वा धीरस्सन् शोकोपलक्षितं संसारं नाsनुभवतीति ( रत्नप्रभा-page 149) || अत्रात्मन: स्थूलदेहत्वं मास्तु सूक्ष्मदेहत्वं  किं न स्यादिति शंकायामुच्यते “ अप्राणो ह्यमन: शुभ्र: ”(मु.उ*2.1.2) इति ||

अत्र प्राणमनसो: क्रियाज्ञानशक्त्यो: निषेधात्  तदधीननां कर्मज्ञानेन्द्रियाणामपि निषेधो हि यत: अत: शुद्ध: इति रत्नप्रभा || अपि चात्मन: देहद्वयाभावे “ असङ्गोह्ययं पुरुष: ”बृ.उ*4-3-15) इति श्रुति: प्रमाणम् || अत एवाsनुष्ठेय कर्मफलविलक्षणं  मोक्षाख्यमशरीरत्वं सिद्धम् ||

अत्र नित्यत्वेsपि कीदृशं नित्यत्वम् ? परिणामिनित्यत्वं वा कूटस्थनित्यत्वं वा? इति शंकायां परिणामिनित्यत्वं प्रतिषेध्य कूटस्थनित्यत्वं प्रतिपादयन्ति भगवत्पादा: || अत्र परिणामिन: नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव || कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकमिति विवृतं रत्नप्रभाकारै: (रत्नप्रभा-page-150) तथा च कूटस्थं पारमार्थिकं , सर्वविक्रियारहितं, विशोकं , निरवयवं , स्वयंज्योतिस्वभावमिति सिद्धम् || तत:

कूटस्थत्वात् न कर्मसाध्यमशरीरत्वं मोक्षाख्यम् || अपि चेदमशरीरत्वं कार्यात्, कारणात्, भूतात्, वर्तमानात्, भव्याच्चाsन्यदेवेति श्रुतेरवगम्यते || (“अन्यत्र धर्मादन्यत्राsधर्मादन्यत्राsस्मात्कृताsकृतात् || अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद ”(क.उ *2.14)|| यदि मोक्ष: कर्मसाध्य: चेत्तर्हि तस्याsनित्यत्वं प्रसज्येत || किन्तु नित्यो मोक्ष : इति सर्वै: मोक्षवादिभि: अभ्युपगम्यते || अत: न कर्मसाध्यो मोक्ष: ||

             यद्यपि वेदान्तेषु  मन्दाधिकर्यनुग्रहार्थं उपासनाविषयास्तत्र तत्रोपलभ्यन्ते तथापि तादृशोपासना विधिविषयत्वन्तु वेदान्ततात्पर्य विषयीभूतनिर्विशेषब्रह्मण: न संभवति ||  यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” (के.उ*1-8) इत्यादिना ब्रह्मण: उपास्यत्वं सर्वात्मना निषिध्यते || अत्र “ अन्यदेव तद्विदितादथोs विदितादधि”(के.उ* 1.3) इत्यादि || श्रुतिभ्यो वेद्यत्वं ब्रह्मण: प्रतिषिध्यते इति ज्ञेयत्वमपि तस्य नोपपद्यते                      

               अतो ब्रह्मज्ञानान्मोक्ष: इति सिद्धान्तोsपि भज्यते इति न वाच्यम् || यत्र ब्रह्म ज्ञेयं न भवति इत्युच्यते वेदान्तेषु, अन्यत्र वा तत्र वृत्त्यभिव्यक्तचैतन्याभस्यत्वस्यरू पफलव्याप्यत्वरुपज्ञेयत्वं नास्तीत्यर्थ: ग्राह्य: ||

यत्र तु ब्रह्म ज्ञेयमित्युच्यते वेदान्तेषु , अन्यत्र वा  तत्र वृत्तिप्रयुक्तावरणभङ्गाश्रयत्वरूपं वृत्तिविषयत्वम् अभिहितमिति सिद्धान्त: || किं च “त्वं हि न: पिता यो s विद्याया: परम् पारं तारयसि” (प्र.उ *6.8)  सोsहं भगव: शोचामि तन्मा भगवन् शोकस्य परं  पारं तारयतु”( छा.उ*7.1.3),

तस्मै मृदितकषायाय तमस: परम् पारं दर्शयति भगवान् सनत्कुमार:” (छा.उ *7-26-2) इत्याद्या: श्रुतय: मोक्षप्रतिबन्धनिवृत्ति मात्रमेवात्मज्ञानस्य फलं दर्शयन्ति || गौतममुनीनामप्ययमेवाभिप्राय: इत्युक्तं भगवत्पादै: || तदुक्तं मुनिभि: गौतमै: “दु:ख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग:” (न्या.सू.1-1-2) इति || तस्येदं रत्नप्रभाविवरणम् || तथा हि:- ‘गौरोsम्’ इति मिथ्याज्ञानस्याsपाये रागद्वेषमोहादि दोषाणां नाश: || दोषापायात् धर्माsधर्मस्वरुप प्रवृत्तेरपाय:, प्रवृत्त्यपायात् पुन: देहप्राप्तिरूपजन्मापाय: एवं पाठ्य क्रमेणोत्तरोत्तरस्य हेतुनाशात्, नाशे सति तस्य प्रवृत्तिरूपहेतो: अनन्तरस्य कार्यस्य जन्मनोs पायात् दु:खध्वंसरूपोsपवर्ग: भवतीति ( रत्नप्रभा- page-156) ||

मिथ्याज्ञानाsपायस्तु ब्रह्मात्मैकत्वविज्ञानाद्भवति || “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति” (बृ.उ-4-5-15) “ मृत्यो: स:मृत्युमाप्नोति य इह नानेव पश्यति ’ (क.उ*4-10) इत्यादि वाक्यै: द्वैतभावस्य मिथ्याज्ञानजन्यत्वात् ब्रह्मात्मैकत्वाज्ञानादेव तन्निवृत्तिरुपपद्यते ||                 

.....अनुवर्तते .....             

 

No comments: