A Study of
Ratnaprabha-Part-21
रत्नप्रभाविमर्शे चतुर्थोsध्याय:
{Ratnaprabhaa vimarsha}
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO,
-:
जिज्ञासधिकरणम् :-
गताङ्कादग्रे......
‘अथ’
शब्दार्थविचार:
अथ, अत:,
ब्रह्मजिज्ञासा, इति त्रिपदात्मकं सूत्रम्
|| अत्राथशब्दस्याsनन्तर्यार्थकत्व निरुपणेन
ब्रह्मजिज्ञासायामधिकारी साधित: भाष्यकारै: || वस्तुत: ‘अथ’ शब्द: बहुष्वर्थेषु प्रयुज्यमान: दृश्यते || “मङ्गळानन्तरारम्भप्रश्नकार्त्स्नेष्वथोsथ” इति
वचनात् ( अमरकोश:*नानार्थवर्ग:-श्लो.२४८)
मङ्गळाद्यर्थेष्वथशब्दस्य
प्रयोगो दृश्यते || तद्यथा :-
1.
मङ्गळे -
अथ परस्मैपदानि
2.
अनन्तरे
- स्नातोsथभुङ्क्ते
3.
आरम्भे -
अथ शब्दानुशासनम्
4.
प्रश्ने-
अथ शक्तोsसि भोक्तुम् ?/ अथ वक्तुं समर्थोsसि?
5.
कार्त्स्ने
- अथ क्रतून् ब्रूम: / अथ धातून् ब्रूम:
एवं चाsत्राsथशब्दस्यानेकार्थकत्वे
तस्य केवलमानन्तर्यार्थकत्वं कथमिति विचारणीयम् || अत्रोच्यते – आनन्तर्ये
प्रयुक्तोsथशब्द: श्रवणमात्रेणैव मङ्गल फलको भवति यथा
अन्यार्थं नीयमान: उदकुम्भ: दर्शनमात्रेणैव मङ्गलफलक: तद्वत् || अतो न पुन: तदर्थोsथशब्द:
मङ्गलस्य ब्रह्मविचारकर्तव्यत्वरूपे वाक्यार्थे
समन्वयाभावाच्च ||
एवमेवाssरंभार्थेsपि न ‘अथ’ शब्द: ||
सूत्रस्थ जिज्ञासापदमभिधया,
ज्ञानेच्छापरम् || तथा च ‘अथ’शब्दस्य
आरम्भार्थकत्वे ब्राह्मज्ञानेच्छा आरभ्यते इत्यर्थ: सिध्यति || तदसंगत: || इच्छाया: अनारभ्यत्वात् || न हि प्रत्यधिकरणमिच्छा
क्रियते, किन्तु तया विचार: इति अभिधार्थे स्वीकृते अथ शब्दस्य अधिकारार्थ: न
संभवति || एवं लक्षणार्थेsपि || जिज्ञासापदस्य लक्षणया
विचारोsर्थ:||
तथा हि:- अत्र ‘ज्ञा’ धातु:
प्रकृति: || इच्छार्थक: ‘सन्’ प्रत्यय: || भाष्यकारैस्तु ब्रह्मजिज्ञासा कर्तव्या
इति कर्तव्यपदमध्या हृतम् || तथाचाsत्र प्रकृतिप्रत्यययो: ज्ञानेच्छयो:
कर्तव्यपदेनान्वय: न संभवतीति प्रकृत्या ‘ज्ञा’ धातुना फलीभूतं ज्ञानम् अजहल्लक्षणया
उच्यते || ‘सन्’ प्रत्ययेन इच्छासाध्यो विचार:
जहल्लक्षणया इति जिज्ञासापदस्य लक्षणया विचारोsर्थ:|| तच्च
कर्तव्यपदस्याध्याहारं विना न संभवति || भाष्यकारैरपि कर्तव्यपदेsध्याहृते
तेनैवाssरंभार्थ: सिध्यतीति न पुनस्तदर्थकोsथ शब्द:
|| एवमेव प्रश्नकार्त्स्न्याद्यर्थेष्वपि ‘अथ’ शब्द: न भवति समन्वयाsभावात्
|| किन्त्वधिकारिसिध्यर्थम् आनन्तर्यार्थतैव युक्तेति भाष्यकाराभिप्रायं विस्तरेण
प्रतिपादितवन्त: रत्नप्रभाकारा: ||
एतावता ‘अथ’शब्दस्याsनन्तर्यार्थकत्वं
निश्चितम् ||
अत्र कस्मादानन्तर्यमित्याकांक्षायां
वेदाध्ययनं (स्वाध्याय:) साधारणकारणत्वेनाभिप्रेतं रत्नप्रभाकारै: || तत: ब्रह्मजिज्ञासाया:
कर्मावबोधनानन्तर्ये शङ्किते कर्मब्रह्मणो: शेष शेषित्वाsधिकृताsधिकारित्वादिसम्बन्ध
निरासेन, कर्मब्रह्मणो: फलजिज्ञास्यादि वैलक्षण्यप्रदर्शनेन च ब्रह्मजिज्ञासाया: कर्मावबोधनानन्तर्यार्थत्वं
निराकृतं भगवत्पादै: || तत: यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते , तत्पुष्कलकारणं
वक्तव्यमिति प्राप्ते उक्तं भगवत्पादै:|| तथाहि :-
१.
नित्याsनित्यवस्तुविवेक:
२.
इहाsमुत्रार्थभोगविराग:
३.
शमदामादिसाधनसंपत्ति:
४.
मुमुक्षत्वं
च इति ||
एते ब्रह्मज्ञानेच्छु:
अर्हता: इति साधनचतुष्टयसम्पन्न: एव ब्रह्मजि ज्ञासायामधिकारीति सिध्यति ||
तथा च साधनचतुष्टयसंपत्त्यनन्तरं
ब्रह्म जिज्ञासा कर्तव्या इत्यर्थ: सिध्यति ||
एते अधिकारिगुणा: “ तद्यथेह
कर्मचितो लोक: क्षीयते एवमेवामुत्र पुण्यचितो लोक: क्षीयते”( छा.उ -8-1-6) “परीक्ष्य
लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृत: कृतेन”(मु.उ- 1-2-12) “शान्तो दान्त उपरत: तितिक्षु: श्रद्धावित्तो समाहितो
भूत्वाssत्मन्येवाssत्मानं पश्येत्” (बृ. उ -4.4.23)
इत्यादि श्रुतिभि: प्रतिपाद्यन्ते
||
1.
अत्र ब्रह्मैव
नित्यं ततोs न्यदनित्यमिति यो विवेक: स: नित्याsनित्यवस्तुविवेक:
2.
वैषयिकसुखानामैहिकानां
तथैव पारलोउकिकानां कर्मजन्यत्वादनित्य त्वाच्च तेषु वैराग्यमिहामुत्रार्थभोग
विराग: ||
3.
शमादिसाधनसंपत्ति:
A.
अत्र शमो
नाम लौकिक व्यापारान्मनस: उपरम:
B.
दमो नाम बःयकरणानामुपरम:
||
C.
ज्ञानार्थं
विहितनित्यादिकर्म सन्यास: अथवा उपरति: सन्यास: ||
D.
शीतोष्णादिद्वन्द्वसहनं
तितिक्षा || अत्रोक्तं विशेषेण भागवत्पादै: ||
तथा हि:-
सहनं सर्वदु:खानामप्रतीकारपूर्वकं
चिन्ताविलापरहितं सा
तितिक्षा निगद्यते ||
E.
निद्रालस्यप्रमादत्यागेन
मनस्थिति: समाधानम्
F.
श्रद्धा
नाम सर्वत्रास्तिकता ||
अत्रोक्तं भगवत्पादै: ||
तथा हि :-
शास्त्रस्य गुरुवाक्यस्य
सत्य बुध्य वधारणात्
सा श्रद्धा कथिता सद्भि:
यथा वस्तूपभ्ययते इति ||
एतत् षट्कप्राप्ति: शमदमादि साधनसंपत्ति: || इदञ्च शमादि षट्कं
“शान्तो दान्त: उपरत: तितिक्षु: श्रद्धावित्त:
समाहितो भूत्वाssत्मन्येवाssत्मानं
पश्येत्” (बृ. उ -4.4.23) इति माध्यन्दिन पाठानुसारि || समाहितो भूत्वा इति काण्वपापाठे
श्रद्धावित्तपदं नास्तीति विज्ञेयम् ||
4.
मुमुक्षुत्वं
नाम मोक्षेच्छा || तदुक्तं विस्तरेण भगवत्पादै: || तथा हि :-
अहङ्कारादिदेहान्तान्
बन्धानज्ञान कल्पितान् |
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता || इति ||
एवञ्च साधनचतुष्टयसंपन्न: ब्रह्मजिज्ञासायामधिकारी भवति ||
साधनचतुष्टयप्राप्तिविषये पूर्वपूर्वस्य,
उत्तरोत्तरहेतुत्वं प्रतिपादित: रत्नप्रभाकारेण ||
उक्तञ्च “अत्र
विवेकादीनामुत्तरोत्तर हेतुत्वेनाsधिकारि
विशेषणत्वं मन्तव्यम्”
इत्यादि (रत्नप्रभा -page 77) ||
तथा च नित्याsनित्यवस्तुविवेकात्
:
इहाsमुत्रार्थभोगविराग:
सिध्यति || तत:
शमादामादिसाधनसंपत्ति:, ततो
मुमुक्षत्वं च इति क्रमोsत्र वेदितव्य: || अत्र
रत्नप्रभायामपरो वोशेष: प्रदर्शित: || तथा हि :- अत्र विवेकादीनां सत्वे एव ब्रह्म
साक्षात्कार: नोचेन्न || उक्तं च “ अथ कथञ्चित् कुतूहलितया, बहुश्रुतत्वबुध्या,
दैववशाद्वा ब्रह्मविचारप्रवृत्ते: सत्त्वेsपि
फलपर्यन्तं तद् ज्ञानं नोदेतीति || एवं चाsत्र
साधनसंपत्तेरावश्यकता स्पष्टीकृता || अत एव सकलशास्त्रपारङ्गतोsपि नारद:
सनत्कुमारमुपगम्य “सोऽहं भगव: शोचामि” इत्याद्युक्तवान् ||
सन्दर्भेsस्मिन्
विद्यारण्यश्रीचरणा:
“ स पुराणान् पञ्च वेदान्
शास्त्राणि विविधानि च
ज्ञात्वाsप्यनात्मवित्त्वेन नारदोsति शुशोच
ह || (पञ्चदशी -xi-19) || इति तद्विषयमुपवर्ण्य,
वेदाभ्यासात्पुरा ताप
त्रयमात्रेण शोकिता
पश्चादभ्यासइस्मारगर्वभङ्गैश्च
शोकिता (पञ्चदशी- xi-20) ||
इत्यादि शोककारणमपि स्पष्टं प्रतिपादितवन्त: ||
अत्रेयमाशङ्का || ननु आत्मज्ञान
विहीनस्य सर्वमपि शास्त्रज्ञानं व्यर्थमिति चेन्न || शास्त्रज्ञानं न कदाsपि
व्यर्थं भवति || शास्त्रज्ञानेन ब्रह्मण: परोक्षज्ञानं जायते || तच्च पापक्षयकारि || तदुक्तम् – “परोक्षब्रह्मविज्ञानं
शाब्दं देशिकपूर्वकम्
बुद्धिपूर्वकृतं पापं
कृत्स्नं दहति वह्निवत् ”
इति (पञ्चदशी-I-63) ||
ननु परोक्षज्ञानेनैव
सर्वपापानां क्षये जाते किं वा पुन: अपरोक्षब्रह्मसाक्षात्कारेणेति चेदुच्यते ||
अपरोक्षब्रह्मविज्ञानमेव निखिलसंसारदु:खनिवर्तकं न तु परोक्षब्रह्मविज्ञानम् ||
तदुक्तम्
“ अपरोक्षात्मविज्ञानं
शाब्दं देशिकपूर्वकम्
संसारकारकाज्ञानतमसाश्चण्डभास्कर: ”
इति (पञ्चदशी-I-63)||
अपरोक्षब्रह्मज्ञानं तु
गुरूपदेशेन , श्रनण, मनन, निदिध्यासनैश्च उत्पद्यते ||
“आचार्यवान् पुरुषो वेद ” (छा.उ-
6-14-2), “आत्मा वा अरे द्रष्टव्य:” (बृ.उ*2-4-5) इत्यादि श्रुतय: प्रमाणम् ||
यदा कश्चन पुरुष: अविद्याकामादिभि:
स्वरुपज्ञानात् प्रच्याव्य, अस्मिन् संसारारण्ये क्षिप्त: संसारार्णव तरणाभिलाषी सन्
कञ्चनाssचार्यमाश्रयति
|| तदा दयापरवशेनाssचार्येन “नाsसि त्वं
संसारी किन्तु तत्त्वमसि” इत्युपदिष्टात्मा स्वरुप: ब्रह्मण: परोक्षज्ञानं प्राप्नोति ||
तत: मननादिभि: तस्याsपरोक्षज्ञानमुदेतीति
परोक्षज्ञानम
परोक्षज्ञानसाधकं भवति ||
एतावत्पर्यन्तम् ‘अथ’ शब्दो
व्याख्यात: || इदानीम् अत: शब्दो व्याख्यायते ||
(अनुवर्तते ..........)
No comments:
Post a Comment