A
Study of Ratnaprabha-Part-29
{Ratnaprabhaa vimarsha}
रत्नप्रभाविमर्श:
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO
पञ्चमोऽध्यायः
-: जन्माद्यधिकरणम् :-
...गताङ्कादग्रे...
ब्रह्मण: स्वरुपलक्षणम्
सूत्रगत‘यत:’शब्देन
ब्रह्मण: स्वरूपलक्षणमप्युच्यते || अत्र भगवत्पादैरप्युक्तं यत: इति कारणनिर्देश:
इति || अत्र रत्नप्रभाकारै: “यच्छब्देन सत्यज्ञानमनन्तमानन्दरूपं वस्तूच्यते
“आनन्दाद्धेव खल्विमानि भूतानि जायन्ते” (तै.उ*3.6) इति निर्णीतत्वात् , तथा च
स्वरूपलक्षणमिति मन्तव्यम्” इति स्वरूपलक्षणं साधितम् || स्वरूपमेव
लक्षणं
स्वरूपलक्षणम् || यथा
सत्यज्ञानादिकं ब्रह्मण: स्वरूपलक्षणम् ||
“सत्यं ज्ञानमनन्तं ब्रह्म” इति वाक्ये
सत्यादिपदानि तद्विरुद्धार्थव्यावर्तकपराणि || न तु तेषां पदानां
कस्यचिदनुवर्तमानस्य धर्मस्य प्रदर्शने तात्पर्यम् || तथा च सत्यज्ञानादि
पदैरखण्डितमेव ब्रह्म प्रतिपाद्यते || सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न
व्यभिचरति तत्सत्यम् || अत: सत्यं ब्रह्मेति ब्रह्म विकारान्निवर्तयति ||
अत: कारणत्वं
प्राप्तं ब्रह्मण: || कारणस्य च कारकत्वं वस्तुत्वा
न्मृद्वदचिद्रूपता च प्राप्ता अत: इदमुच्यते ज्ञानं ब्रह्मेति || अत्र भावसाधनो
ब्रह्मशब्द: न तु ज्ञानकर्तृ || तत: ज्ञानं ब्रह्मेति कर्तृत्वादिकारक
निवृत्त्यर्थं मृदादिवदचिद्रूपता निवृत्त्यर्थं च प्रयुज्यते ||
ज्ञानं ब्रह्मेति वचनात्प्राप्तम् अन्तवत्वं
लौकिकज्ञानस्यान्तवत्त्वदर्शनात् || अत:
तन्निवृत्त्यर्थमनन्तपदम्
|| अन्त: परिच्छेद: अभाव: इति पर्याय: || अभावश्च त्रिविध: देशात:, कालात:,
वस्तुतश्च || देशतोsभाव: अत्यन्ताsभाव: यथा घटस्य भूतलादौ , कालतो अभाव: प्रागभाव: , प्रध्वंसाभावश्च यथा घटादे:
प्राक्काले, उत्तरकाले च अभाव: || वस्तुतो अभावश्च वस्तुप्रतियोगिकान्योन्याभव:
यथा पटादौ घटस्य ||
तथा च प्रकृते
ब्रह्मपदसमानाधिकरणेन अनन्त पदेन न विद्यते अन्तो यस्येति व्युत्पत्त्या
ब्रह्मपदार्थस्य त्रिविधोप्यभावो व्यवच्छिद्यते || तत्र देशकृताsभावनिषेधेन ब्रह्मण:
विभुत्वं लभ्यते || कालकृताभावनिषेधेन तस्य नित्यत्वं लभ्यते || वस्तुकृताsभावरूपभेदनिषेधेन तस्य सर्वजगदभिन्नत्वरूपं
सर्वात्मकत्वं लभ्यते ||
ब्रह्म सकलजगत्कारणमपि निर्विकारम् ||
“ अशब्दमस्पर्शमरूपमव्ययम्” (क.उ-3-15) “ साक्षी
चेता केवलो निर्गुणश्च” (श्वे. उ- 6-11) इत्यादिश्रुते: || पूर्णे वस्तुनि कयाsपि क्रियया, किमपि न
परिवर्तनं संभवतीति तस्य निर्गुणत्व, निष्क्रियत्वविषये न काsपि विप्रतिपत्ति: || अपि च
उपनिषद: “ तदेतद्ब्रह्माsपूर्वमनपरमबाह्यमनन्तरम्” (बृ.उ*2-5-19) इति ब्रह्म वर्णयन्ति || अत्र ‘एतत्’ पदेन
अपरोक्षत्वं , ‘अपूर्वम्’ इत्यनेन कारणशून्यत्वं, ‘अनपरम्’ इत्यनेन
कार्यरहितत्वं, ‘अनन्तरम्’ इत्यनेन एकरसत्वं , ‘अबाह्यम्’
इत्यनेनाद्वितीयत्वं च ब्रह्मण: सिध्यन्तीति रत्नप्रभा
(रत्नप्रभा – page 136)|| किञ्च
भगवत्पादै: ब्रह्मण: नित्य, शुद्ध, बुद्ध, मुक्त, स्वभावत्वं ब्रह्मपदव्युत्पत्त्यैव
सिध्यतीत्युक्तम् || तथा हि:- बृंहणात् ब्रह्म इति व्युत्पत्त्या देशकालवतुत:
परिच्छेदाsभावरूपं
नित्यत्वं प्रतीयते || अविद्यादिदोषशून्यत्वं शुद्धत्वम् ||
जाड्यराहित्यं बुद्धत्वम् || बन्धकालेsपि स्वतो बन्धाsभाव: मुक्तत्वं चेति
व्याख्यातं रत्नप्रभायाम् ( रत्नप्रभा- page-8-87)||
ननु ब्रह्मण: तटस्थलक्षणं “यतो वा इमानि भूतानि
जायन्ते” इत्यादि श्रुत्या उक्तं चेत्तर्हि स्वरुपलक्षणं किमिति शंकायामुच्यते ||
“ आनन्दाद्धेव खल्विमानि भूतानि जायन्ते,
आनन्देन जातानि जीवन्ति, आनन्दं प्रत्यभिसंविशन्ति (तै.उ*3.6) इति ||
एतावता ब्रह्मण: स्वरुपतटस्थलक्षणकथनेन तस्य जिज्ञास्यत्वं
चोपलभ्यते इतीदं जन्माद्यधिकरणम् ||
....अनुवर्तते ...
<><><>
No comments:
Post a Comment