A Study of Ratnaprabha - 30
रत्नप्रभाविमर्श:
षष्ठोऽध्यायः
Author:
DR. CHILAKAMARTHI
DURGA PRASADA RAO,
Bhasha
praveena , Vedanta vidya Praveena,
M A
(Sanskrit), M A (Telugu), M A (Philosophy)
& Ph D (Sanskrit)
‘अथाsतो ब्रह्मजिज्ञासा’ इति प्रथमसूत्रेण ब्रह्मण: जिज्ञास्यत्वमुक्तम् || ततो ‘जन्माद्यस्य यत:” इति द्वितीयेन सूत्रेण जिज्ञास्यब्रह्मण: लक्षणं
प्रदर्शितम् ||
तत्र जगत्कारणत्वेन ब्रह्मण: सर्वज्ञत्वमुक्तम् || ब्रह्मण: सर्वज्ञत्वं न केवलं जगत्कारणत्वेन , अपि तु वेदकर्तृत्वेनापि तत्संभावयितुमिदं शास्त्रयोनित्वाधिकरणमारब्धम् ||
अथवा वेदानां नित्यत्वे ब्रह्मण: वेदकर्तृत्वाsभावात् सर्वज्ञत्वं न सिध्यति || अतो वेदहेतुत्वेनाsपि ब्रह्मण:
सर्वज्ञत्वसाधनायेदमधिकरणमारब्धमिति रत्नप्रभा ||
“शास्त्रस्य योनि: शास्त्रयोनि: तस्माच्छास्त्रयोनित्वात्” || “शास्त्रं योनि:
यस्य स: शास्त्रयोनि: तस्माच्छास्त्रयोनित्वात्”
इत्यन्वयद्वयसहितमिदं सूत्रं वर्णकद्वयात्मकं सत् ब्रह्मण: लक्षणपरत्वेन, प्रमाणपरत्वेन चान्वेति
||
“अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदो सामवेदोह्यथर्वण:” (बृहदारण्यक–उपनिषद २-४-१०) इति सूत्रस्यास्य विषयभूतं वाक्यम् ||
अत्र ब्रह्म
वेदस्य कर्ता भवति वा न वा इति सन्देह: ||
“वाचा
विरूपनित्यया” इत्यादिश्रुत्या
“अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा,
आदौ वेदमयी दिव्या यत: सर्वा: प्रवृत्तय:”
इत्यादिस्मृत्या च श्रुतीनां (वेदानां) नित्यत्वात् न ब्रह्मण: वेदकर्तृत्वं, ततस्तस्य न सर्वज्ञत्वम् इति पूर्वपक्ष: ||
अस्य महतो भूतस्य
इत्यादि श्रुत्या ब्रह्मण: वेदकारणत्वम् || यथा अप्रयत्नेनैव निश्वासकर्तृत्वं जीवस्य तथा वेदकर्तृत्वं ब्रह्मण: सर्वे
वेदा: ब्रह्ममुखादाविर्भूता: इत्यर्थ: || तथा च एतादृशवेदकर्तृत्वं सर्वज्ञस्येश्वरस्य सिध्यत्येवेति सिद्धान्त: || अपि च पुर्वकल्पीयस्यैव वेदस्य ब्रह्मण: निश्वसितरूपेण
प्रकटितत्वात् न वेदस्य नित्यत्वक्षति: || अत्र न केवलं जगत्कारणत्वेन किन्तु
वेदकारणत्वेनाsपि ब्रह्मण: सर्वज्ञत्वम् ||
-: ब्रह्मण:
वेदकारणत्वम् :--
ब्रह्मण:
जगत्कारणत्वं पूर्वाधिकरणे निरूपितम् || इदानीं वेदकारणत्वं निरूप्यते ||
शास्त्रस्य योनि:
शास्त्रयोनि: तस्माच्छास्त्रयोनित्वात् ||
अत्र शास्त्रपदेन
वेदोsभिधीयते || ब्रह्म तावत् ऋग्वेदादि शास्त्रस्य कारणं भवति || वेदस्तु पुराणन्यायमीमांसाधर्मशास्त्रै:, शिक्षाकल्प व्याकरणछन्दोज्योतिषनिरुक्तादिषडङ्गै: उपकृत: || अपि चायं वेद: वैदिकविषयाणां तथैव लौकिकविषयाणां चाssकर: || अतो ग्रन्थतोsर्थतश्चापि वेदो महानेव || किञ्च
हितशासनात्तस्य शास्त्रत्वमुपपद्यते || तथा चाsयं वेद: सर्वार्थप्रकाशनशक्तिमान् || किन्तु सर्वार्थ प्रकाशनशक्तिमत्त्वेsपि अचेतनत्वात् , बोधृत्वाsभावाच्च, सर्वज्ञाकल्पत्वमेवोपपद्यते वेदस्य || एतादृशमहत्वविशिष्टस्य
सर्वज्ञकल्पस्य च वेदस्य कारणत्वेन
ब्रह्मण: सर्वज्ञत्वम् ||
अपि च लोके य: यत्करोति स: ततोsप्यधिकतरज्ञानवान् संदृश्यते || उपपद्यते हि किल रामायणप्रणेतु: वाल्मीके: ततोप्यधिकतरविज्ञानवत्त्वम् || एवमेवात्राsपि पूर्वोक्तगुणविशिष्टस्य
सर्वज्ञकल्पस्य वेदस्य कारणत्वेन ब्रह्मण:
सर्वज्ञत्वमुपपन्नमेव || किञ्च तादृशगुणविशिष्टं वेदं अप्रयत्नेन लीलयैव
करोतीति ब्रह्मण: सर्वज्ञत्वम् ||
अत्रोक्तं
भामत्याम् – देवर्षयो हि महापरिश्रमेण यत्राsशक्ता: तदीयमप्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं, सर्वशक्तिमत्वं,
चोक्तं भवति ||
उदयनाचार्यै: न्यायकुसुमाञ्जलौ
ईश्वर: अनुमानेन साधित: ||
“कार्यायोजनधृत्यादे:
पदात् प्रत्ययत: श्रुते:
वाक्यात् संख्याविशेषाच्च
साध्यो विश्वविदव्यय:”
अत्र ‘श्रुते:’ इत्यनेन
वेदं प्रति कारणत्वमभिप्रेतम् ईश्वरस्य ||
श्रुतिरपि “अस्य महतो भूतस्य” इत्यादिवाक्यै: ब्रह्मण: वेदकर्तृत्वं प्रतिपादयति ||
अत्रेयमाशङ्का ||
ब्रह्मण: वेदं प्रति कारणत्वे वेदानां नित्यत्वं कथमिति ||
किञ्च ब्रह्मण: वेदकर्तृत्वे वेदानामपौरुषेयत्वं कथमिति तस्याsभिप्राय: ||
अत्रापौरुषेयत्वं नाम
किमिति विचारणीयम् || मीमांसका: “ वेदस्याध्ययनं सर्वं गुर्वध्ययन पूर्वकम” इयादि
नियममनुसृत्य वेदस्याsनदित्वं मन्वते || ते सृष्टिप्रलयमनिच्छन्त:
वेदाध्ययनं प्रति अस्मद्गुरुशिष्यपरंपरामविच्छिन्ना
मिच्छन्ति || वेदं
चाsनादिमाचक्षन्ते || परम्पराया: अनादित्वात्
वेदस्याप्यनादित्वम् || तेषां च मते अपौरुषेयत्वं नाम
पुरुषाsस्वातन्त्र्यमेव || वेदान्तिनास्तु “ धाता यथापूर्वमकल्पयत् ” इत्यादि
श्रुतिभि: परमेश्वर: पूर्वकल्पीयं वेदं स्मृत्वा अनन्तरकल्पे कृतवानिति वदन्त: परमेश्वरस्यापि
तेषु स्वातन्त्र्यं नास्तीत्यभ्युप गच्छन्ति || उक्तं च स्वयं गीतायाम् ||
“वेदैश्च सर्वैरहमेव
वेद्य: वेदान्त कृद्वेदविदेव चाsहम्” इत्यादि (भगवद्गीता-15/15) ||
अत्र ‘वेदान्तकृत्’
इत्यस्य वेदान्तार्थसंप्रदाय कृत् इत्यर्थ: || वेदवित् वेदार्थविदित्यर्थ: इति भाष्ये
भगवत्पादा: || तथा च परमेश्वर: केवलं वेदस्य वेत्तैव न कर्तेति ज्ञायते || अपि च
वेदस्याsपौरुषेयत्वविषये रत्नप्रभाकाराणा मयमभिप्राय:
यत् “यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वास्यसृष्टौ कारणं तत्र पौरुषेयता || अत्र
विचित्रगुणमायासहाय:
अनावृsतानन्तस्वप्रकाशचिन्मात्र: परमेश्वर: स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं
वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न पौरुषेयता वेदस्य || तथा च वेदोsपौरुषेय: एव ||
-: ब्रह्मण: वेदवेद्यत्वाम्
:-
इदानीं सूत्रस्य
द्वितीयेन वर्णकेन ब्रह्मण: शास्त्र प्रतिपाद्यत्वं साध्यते || तथा हि:-
शास्त्रं योनि: यस्य
स: शास्त्रयोनि: तस्माच्छास्त्रयोनित्वात् ||
“तं त्वौपनिषदं
पुरुषं पृच्छामि”(बृ.उ*3-9-26) इति श्रुतिवाक्यमत्र विषय: ||
ब्रह्म केवलं शास्त्रप्रमाणैरेव
उत अन्यप्रमाणै रपि वा इति संशय: || घटवद् ब्रह्म प्रत्यक्षादि प्रमाणैरपि ज्ञातुं
शक्यते इति पूर्वपक्ष: ||
रूपादिहीनं ब्रह्म
प्रत्यक्षादिप्रमाणै: ज्ञातुं न शक्यते किन्तु केवलेन श्रुतिप्रमाणेन इति सिद्धान्त: ||
ब्रह्म तावत् शास्त्रेणैव
प्रमाणेन ज्ञातुं शक्यते न प्रत्यक्षेण रूपादिहीनत्वात् , नाsप्यनुमानेन
सादृश्याभावाच्च || ब्रह्मण: प्रत्यक्षादि प्रमाणाsविषयत्वे “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” (तै.उ-2-4), “यन्मनसा न
मनुते”
(क.उ*3-5) इत्यादि
श्रुतय: प्रमाणम् || किञ्च
ब्रह्मणोsस्तित्वे किं प्रमाणमिति चेत् वेद एव प्रमाणम् || सर्वे
वेदा: मुक्तकण्ठं परमेश्वरमेव प्रतिपादयन्तीति वेदवेद्यत्वं तस्य || उक्तञ्च गीतायाम्:-
वेदैश्च सर्वैरहमेव वेद्य: (15/15) इतादि || अतो ब्रह्मण: वेदवेद्यत्वात् शास्त्रयो
नित्वमुपपद्यते || तच्च शास्त्रयोनित्वं वेदान्त वाक्यसमन्वयेनैव गृह्यते इति समन्वयाधिकरणमारब्धं
भगवत्पादै: ||
<><><>
....अनुवर्तते ....
No comments:
Post a Comment