A Study of Ratnaprabha-Part-26
रत्नप्रभाविमर्शे चतुर्थोsध्याय:
{Ratnaprabhaa vimarsha}
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO,
-: जिज्ञासाधिकरणम्: -
गताङ्कादग्रे.....
-: आत्मन: स्वरूपम् :-
शास्त्रोपदेशसंस्कारशून्या: प्राकृता: चार्वाकैकदेशिन: “ स वा एष पुरुषोsन्नरसमय:” (तै.उ *2-1-1) “विज्ञानघन एव एतेभ्य:
भूतेभ्य: समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञाsस्ति” ( बृ.उ*2-4-12) इत्यादिवाक्यै: “स्थूलोsहम्”, “कृशोsहम्” इत्याद्यनुभ्वाच्च स्थूलशरीरमात्मेति वदन्ति ||
चार्वाकेष्वन्ये एवमभिप्रयन्ति यत् “मम शरीरम्” इति भेदप्रतीते: सत्वात् ,
इन्द्रियाणामभावे शरीरचलनाभावाच्च न शरीरमात्मा किन्तु “चक्षुरादयस्तेह वाचमूचु:” (
बृ.उ*1.3.2) इत्यादिवाक्यै: “काणोsहम्”, “बधिरोsहम्” इत्याद्यनुभवाच्च इन्द्रियाणामात्मत्वमिति ||
अपरे चार्वाका: “ मम इन्द्रियाणि” इति भेदप्रतीते: सत्वात् चक्षुरादीन्द्रियाणां
व्यवहाराsभावेsपि अहमित्यात्मनि परिपूर्ण प्रत्ययात् मनस्संबम्धाsभावे इन्द्रियाणां चलनाsभावाच्च नेन्द्रियाणामात्मत्वम् ||किन्तु “मन उवाच” “तस्माद्वा
एतस्मात्प्राणमयादन्यो sन्तर:
आत्मा मनोमय: (तै.उ* 2-3-1) इत्यादिवाक्यै:, मनस्संबन्धाsभावे इन्द्रियाणां चलनाsभावात् “संकल्पवनहम्” “विकल्पवानहम्” इत्याद्यनुभवाच्च
मन एवात्मेत्यभिप्रयन्ति ||
बौद्धैकदेशिन:
विज्ञानवादिनो योगाचारा: एवामभिप्रयन्ति || तथाहि :- लोके मम बुद्धिरिति प्रतीते: सत्वात्,
अहं बुद्धिरिति प्रतीतेरभावाच्च न बुद्धि: आत्माभवितुमर्हति || किन्तु “ असदेवेदमग्र
आसीत् ” ( छा.उ* 3-2-13) इत्यादि श्रुते:, सुषुप्तौ “नाsन्यदस्त्येव” “ नाsहमप्यासम्” इति व्युत्थितजनस्य सर्वाsभावपरामर्शाsनुभवाच्च शून्यमेवात्मा इति ||
तार्किकास्तु पूर्वोक्तमभिप्रायमेवं निराकुर्वन्ति|| लोके
“सुखमहमस्वाप्सम्” इति व्युत्थितस्य परामर्शान्यथानुपपत्त्या सुषुप्तावपि अज्ञानादिसाक्षित्वेन परिपूर्णाssत्मप्रत्य याङ्गीकारात्, अहमुल्लेखि
प्रत्यभिज्ञानाच्च न शून्यमात्मा भवितुमर्हति ||
किञ्च अमूर्त: सर्वाकारशून्यत्वेन निस्स्वभाव: परमार्थ: इति
वदतां शून्यवदिनां मतं कल्पनामात्रम् || कुत इत्युक्तौ “परमार्थ: निस्स्वभाव:”
इत्यस्य परस्परविरुद्धत्वात् || किन्तु ‘कर्ता’’ ‘बोद्धा’( प्र.उ*4.9) इत्यादि श्रुतिभि:,
मम प्रत्ययालंबनस्याहमुल्लेखमानस्य शरीरादे: भोक्तृत्वाद्यनुपपत्तिरूपयुक्ते:, “अहं
कर्ता” “अहं भोक्ता” इत्याद्यनुभवाच्च देहेन्द्रियादिभ्यो व्यतिरिक्त: ‘कर्ता’ ‘भोक्ता’ प्रत्यभिज्ञानात्
स्थिर: आत्मेत्यभिप्रयन्ति ||
सांख्यास्तु पुर्वोक्तवादं निराकुर्वन्ति || तथा हि:-
कर्तृत्वं
हि क्रियावेश: || न हि सर्वगतस्य निरवयवस्यात्मन: परिणामलक्षणक्रियान्वय: संभवति || न
हि बुद्धे: कर्तृत्वम् आत्मनो भवतीति वाच्यम् , तन्मते तादात्म्याध्यासाsभावात् || किञ्चात्मन: कर्तृत्वे “अनश्नन्नन्योsभिचाकशीति”(मु.उ*3-1-1) इत्यादि
श्रुतय: बाध्येरन् || किन्तु “तयोरन्य:” इत्यादि श्रुतिभि: दृश्यावभासमात्रात्मकं भोक्तृ
त्वोपपत्तिरूपयुक्ते:, “अहं भोक्ता” इत्याद्यनुभवाच्च भोक्तैवात्मा इति सांख्या:
||
सेश्वरसांख्या: योगिन: पूर्वोक्तवादं
खण्डयन्ति || तथा हि:- “ ईश्वरस्य भोक्तृत्वे तस्य सर्वज्ञत्वादिकं न सिध्यति ||
अपि च “ नाsहमीश्वर:
किन्तु संसारी” इत्यनुभवाच्च भोक्तु: जीवस्य नेश्वरत्वम् || किन्तु “य: सर्वज्ञ:
सर्ववित्”(मु.उ*1-1-9) “आत्मानमन्तरो यमयति” इत्यादिश्रुते:
सर्वज्ञात्वाद्यनुपपत्तिरूप युक्ते: ईश्वरोsस्तीत्यनुभवाच्च, देहेन्द्रिय व्यतिरिक्तादहंप्रत्यय विषयाद्भोक्तु:
जीवादन्य: सर्वस्येशिता निरतिशयत्वोपाधिक: ईश्वर इति वदन्ति ||
वेदान्तिनस्तु
पूर्वोक्तश्रुतियुक्त्यनुभवाना माभासत्वात् “तत्वमसि”(छा.उ*1-4-10) इति
विद्वदनुभवाच्च “आत्मा स भोक्तु:” इत्यात्मस्वरुपं
प्रतिपादयन्ति || तस्यायमर्थ: भोक्तु: भोक्तृत्वेन प्रतिपाद्यमानस्य जीवस्यात्मस्वरूपं
पारमार्थिकरूपं न भवतीत्यर्थ: || तथा च प्रत्यगस्थूलोsचक्षुरप्राणो sमनोsकर्ता चैतन्यं चिन्मात्रं स सत् इत्यादि
प्रबलश्रुते: , भोक्तृत्वाद्यवभासस्य मिथ्यात्वात् , स्वत: नित्य, शुद्ध , बुद्ध ,
मुक्त स्वभाव: , स्वयं प्रकाशमान: जीव: इति जीवब्रह्मणोरैक्यमेव वेदन्तिनां मतमिति
जीवो ब्रह्मैव || स एवाssत्मा
||
एवं
चात्मस्वरुपविषये शास्त्रकाराणां नैकोs भिप्राय: संदृश्यते || तत्रात्मन: याथार्थ्यज्ञानादेव नि:श्रेयसप्राप्ति:
|| तद्विपरीते न केवलं नि:श्रेयस हानि:, किन्त्वनर्थपरम्पराप्राप्तिश्च
|| अनुसन्धेयमत्र भगवत्पादवचनम् || तथा हि:-
“ एवं
बहव: विप्रतिपन्ना: युक्तिवाक्यतदाभास समाश्रया: सन्त: || तत्राविचार्य यत्किञ्चित्प्रतिपद्यमान:
निश्रेयसात्प्रतिहन्येताs
नर्थञ्चेयात् इति || किं चाsत्र –
“अन्धंतम:
प्रविशन्ति ये के चाssत्महनो
जना:”
“योsन्यथा सन्तमात्मान मन्यथा प्रतिपद्यते
किं
तेन न कृतं पापं चौरेणात्मापहारिणा”
इति श्रुतिस्मृतिभ्यां,
मतान्तराश्रयणेsनर्थं
प्रदर्शितं रत्नप्रभाकारै: ||
तथा च
साधनचतुष्टयसम्पत्त्यनन्तरं, कर्मफलस्यानित्यत्वात् ब्रह्मज्ञानाय वेदान्तवाक्यविचार:
कर्तव्य: इत्ययं जिज्ञासाधिकरणस्य परमाशय:|| 😐
<><><>
No comments:
Post a Comment