A
Study of Ratnaprabha-Part-23
रत्नप्रभाविमर्शे चतुर्थोsध्याय:
{Ratnaprabhaa
vimarsha}
जिज्ञासधिकरणम् :-
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO,
गताङ्कादग्रे.....
“ ब्रह्मजिज्ञासा ” शब्दविवरणम्
व्याप्त्यर्थकबृहते: धातो: ब्रह्मपदव्युत्पत्ति:
||
“ वेदास्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रप्रजापति:”( अमरकोश:)
इति वचनात् ब्रह्म शब्द: तत्तदर्थेषु प्रयुक्त: दृश्यते || वेदेsपि ब्रह्म शब्द: अनेकार्थेषु प्रयुक्त: दृश्यते || तथा हि:-
“यस्य ब्रह्म च क्षत्रं च”( कठ.उ-1-2-24) इत्यादौ ब्राह्मणजातौ, “ब्रह्म आयाति”
इत्यादौ जीवे, “स एनान् ब्रह्म गमयति”{ छा.उ.4-15-6) इत्यादौ हिरण्यगर्भे, “
ब्रह्मवेद ब्रह्मैव भवति” ( मु.उ .3-2-9) इत्यादौ निर्विशेष ब्रह्मणि च प्रयुक्त:
दृश्यते || ब्रह्मण: लक्षणं स्वरुपादिकञ्च
“जन्माद्यस्य यत:”
इत्यादि सूत्रै: उत्तरत्र प्रतिपादयिष्यते इति ब्रह्मशब्दस्य न
जत्याद्यर्थान्तरमाशंकितव्यम् ||
‘ब्रह्मजिज्ञासा’ इत्यत्र
धर्माय जिज्ञासा इति वत् ब्रह्मणे जिज्ञासा इति वदत:
पूर्वपक्षिणोs भिप्राय: एवं निराक्रियते || तथा हि:-
ब्रह्मणे
जिज्ञासा ब्रह्मजिज्ञासा
इत्युक्तौ ब्रह्मण: चतुर्थ्यन्तपदप्रतिपाद्यस्य फलत्वं
लभ्यते यथा “तृप्त्यै भुङ्क्ते” इत्यत्र चतुर्थ्यन्तपदप्रतिपाद्यस्य
तृप्ते: फलत्वं
भोजनकर्मत्वं चाsन्नादे: इति कर्मत्वमन्यस्य, फलत्वमन्यस्य ||
तथा च फलत्वं ब्रह्मण: जिज्ञास्यत्वमन्यस्य स्यात् || तच्च न युक्तं कुत इत्युक्तौ
सर्वासु श्रुतिषु ब्रह्मण: एव विचार्यत्वेनोद्घोषणात् || अत: ब्रह्मण: जिज्ञासा
ब्रह्मजिज्ञासा इति षष्ठीसमास एवाssदर्तव्य:
||
अत्र षष्ठीसमासपक्षेsपि
शेषषष्ठी वा कर्मणि षष्ठी वा इति शंकायाम् अत्र ब्रह्मण: इति कर्मणि षष्ठी न शेषे
इति कर्मषष्ठीवाद एव समर्थित: भगवत्पादै:
|| अत्र रत्नप्रभाकारा: || तथा हि:- जिज्ञासा इत्यत्र ‘सन्’ प्रत्यय वाच्याया: इच्छाया:
ज्ञानं कर्म || तस्य ज्ञानस्य ब्रह्म कर्म || ज्ञानेच्छाकृतीनां सकर्मकत्वात्
कर्मज्ञानं विना ज्ञातुमशक्यत्वाच्च || इच्छाया: विषयज्ञान जन्यत्वाच्च
प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्य: न शेष: इति ||
अपि च प्रत्यक्षेण श्रुतं
कर्म त्यक्त्वा अन्यदश्रुतं कल्पयन् “पिण्डमुत्सृज्य करं लेढि” इति न्यायमनुसरति
इति शेषषष्ठी वादिनमुद्धिश्य रत्नप्रभाकाराणामाक्षेप: || श्रुत्या
“तद्विजिज्ञासस्व तद्ब्रह्मेति” इति प्रत्यक्षेण कर्मणि श्रुतत्वात् कर्मषष्ठी पक्ष एव समर्थनीय:|| तथा च जिज्ञासाकर्मत्वं
ब्रह्मण: संभवतीति ब्रह्मकर्मकजिज्ञासा
कर्तव्या इत्यर्थ: संगृहीत: भवति ||
एवञ्च ब्रह्मण: जिज्ञासाविषयत्वसंभवेsपि
फलत्वं कस्येति तु विचारणीयं भवति ||यद्यन्यत्फलं स्याद् ब्रह्मण: ब्रह्मविचारेणान्य
स्य प्राप्तिरित्युक्त: भवति || तच्चाsद्वैत सिद्धान्तविरुद्धम्
|| अद्वैतसिद्धान्ते ब्रह्मणोsनया
मुक्तिश्चेत् ब्रह्मैकं मुक्तिरेकेति द्वैतमेवापद्येत || तच्च नाsभीष्टमिति
शंकायां समाधानमेवं वक्तव्यम् ||
ब्रह्मैव जिज्ञासाविषय:
ब्रह्मैव फलम् ||अत्राज्ञातत्वेन ब्रह्मण: जिज्ञासाविषयत्वं, ज्ञातत्वेन फलत्वमिति
विज्ञेयम् || ब्रह्मज्ञानन्तु भग्नावरणचिद्रूपं, ब्रह्मैव मुक्ति: || अत एव
भगवत्पादै: जिज्ञासापदाविवरणे अवगति पर्यन्तं ज्ञानं ‘सन्’ वाच्याया: इच्छाया: कर्म इत्युक्तम् ( शांकरभाष्यम् page 83-84) || अत्रावगतिपदमेवं व्याख्यातं रत्नप्रभाकारै: || तथा हि:- आवरणनिवृत्तिरुपाभिव्यक्तिमच्चै तन्यमवगतिरिति, सैव
पर्यन्तोsवधिर्यस्याs खण्डसाक्षात्कारवृत्तिज्ञानस्य
तदेव जिज्ञासाया: कर्म तदेव फलमित्यादि ( रत्नप्रभा -page
83&84) || एवं चाsत्र “ आवरणनिवृत्तिरुपाभिव्यक्तिमच्चै तन्यमवगतिरिति,
तत्फलं ब्रह्मज्ञानमेव जिज्ञासासूत्रघटकज्ञाधातुप्रतिपाद्यमिति स्पष्टं प्रतिपादितम् || आवरणद्वयात्मकाविद्याया:
स्वरूपं, तन्निवृत्तिश्च अध्यासस्वरुप वर्णनावसरे प्रागेव प्रदर्शितमस्माभि:
इतीहोपरम्यते || तथा च ब्रह्मण: एव जिज्ञासाविषयत्वं फलत्वं चेत्यत्र न कोsपि
विरोध: ||
.....अनुवर्तते ......
No comments:
Post a Comment