Thursday, October 30, 2025

A Study of Ratnaprabha –35

 

A Study of Ratnaprabha –35

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

वृत्तिकारपूर्वपक्ष:

 

                                   एतच्च वृत्तिकारमतं ( उपवर्षाचार्यस्य वृत्तिकार: इति व्यवहार: || अनेन पूर्वोत्तरमीमांसयो: वुत्ति: विरचिता || अयमुपवर्षाचार्य: भगवत्पादेभ्य: शबरस्वामिनोsपि प्राक्तन: इति तयो: ग्रन्थेषु तस्य नाम्न: प्रस्तावनादवगम्यते || तेन विरचिता ब्रह्मसूत्र वृत्ति:  संप्रति नोपलभ्यते )   अत्राsपरे प्रत्यवतिष्ठन्ते “ इत्यारभ्य “तस्मात् प्रतिपत्ति विधि विषयतयैव शास्त्रप्रमाणकं ब्रह्म  अभ्युपन्तव्यम्” इत्यन्तं प्रदर्शितं भाष्यकारै: ||

             एते वृत्तिकारा: ज्ञानकर्मसमुच्चयवादिन: || ज्ञानकर्मसमुच्चयो नाम ज्ञानस्येव कर्मणोsपि मोक्षाsङ्गत्वम् || तेषामयमाशय: यत् यद्यपि ब्रह्म शास्त्रप्रमाणकं तथाsपि प्रतिपत्तिविधिविषयतयैव तदभ्युपगन्तव्यमिति || अत्रोक्तं रत्नप्रभाकारै:  “विधिर्नियोग: तस्य विषय: प्रतिपत्तिरुपासना “ इत्यादि वाक्यै: (रत्नप्रभा -page १३९) ||

वृत्तिकारास्तु सर्वेषां पदानां कार्यान्वितार्थे शक्तिमभ्युपगम्य ब्रह्म तावत् विधिशेषत्वेनैव वेदान्तै: बोध्यते न स्वातन्त्र्येण इत्यभिप्रयन्ति || 

   तथा हि :- आत्मा वा  अरे द्रष्टव्य: श्रोतव्य: मन्तव्य: निदिध्यासितव्य: “( बृ.उ*2.4.5)  सोs न्वेष्टव्य:” (छा.उ*8.7.1) “आत्मानमुपासीत” इत्यादि ब्रह्मोपासनापराणि वाक्यान्युपलभ्यन्ते वेदान्तेषु तत्रोपास्यस्वरूपं प्रतिपादयत: || यथा “यूपे पशुं बध्नाति “ इति विधिवाक्यं  यूपे पशुबन्धनं कर्तव्यमिति विधिं बोधयति || तद्यूप: कीदृश: इत्याकाङ्क्षायां  “ यूपं तक्षति “,  “ अष्टास्रीकरोति” इति तक्षणादिसंस्कृतं दारु यूप:  इति तत्र प्रतिपादयति || एवं यथा आहवनीये जुहोति (गार्हपत्यादावाहवनीयं ज्वलन्तमुद्धरेत् ( आश्वलायनश्रौतसूत्राणि-2-2) इत्यत्र आहवनीये होम: कर्तव्य: इति विधिवाक्येन बोध्यमाने आहवनीय: कीदृश: इत्याकांक्षायां  तत्र ‘अग्नीनादधीत’ इत्यादन संस्कृतोsग्नि: आहवनीय इत्युच्यते || एवमेव ” आत्मा वा अरे द्रष्टव्य:” इत्यादि स्थलेषु आत्मदर्शनं विधीयते || तादृशविधीयमान दर्शनविषये आत्मा कीदृश: इत्याकांक्षायां ”सत्यं ज्ञानमनन्तं ब्रह्म” (तै.उ *2.2), “सदेव सोम्येदमग्र आसीत् “ (छा.उ * 6.2) इत्यादि वचनानि विधिविषयब्रह्मबोधकत्वेन प्रामाण्यमुपगच्छन्ति || एवञ्च ब्रह्मोपासनमेव मोक्षस्य साधनमिति तत्र उपासनाविधिशेषत्वेनैव ब्रह्म बोध्यते न स्वातन्त्र्येण || तथा च कार्यपरत्वेनैव वेदान्तानां प्रामाण्यं न सिद्धपरत्वेनेति वृत्तिकाराणामाशय: ||

अत्र धर्मादतिरिक्तं ब्रह्म नाsस्तीति वदतो मीमांसकादस्य वैलक्षण्यम् ||

 

....अनुवर्तते ......                        

 

 

No comments: