A Study of Ratnaprabha-Part-25
रत्नप्रभाविमर्शे चतुर्थोsध्याय:
{Ratnaprabhaa vimarsha}
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO,
-: जिज्ञासधिकरणम्:-
गताङ्कादग्रे.....
इदानीं ब्रह्म प्रसिद्धं वा
अप्रसिद्धं वा इति विचार्यते || यदि ब्रह्म
प्रसिद्धं तर्हि न जिज्ञासितव्यं प्रमाणान्तरसिद्धत्वात्तस्य || अनधिगताबाधितार्थबोधकत्वं
प्रमाणस्य लक्षणम् || एवं सति यदि ब्रह्म
प्रसिद्धं चेत् तर्हि तस्याबाधितार्थत्वात् वेदान्तानां
प्रामाण्यमेव नोपपद्यते || यदि ब्रह्माप्रसिद्धं तर्हि अप्रसिद्धस्य
जिज्ञासितव्यत्वाsभावात्
जिज्ञासितव्यत्वं काकदन्तपरीक्षावन्निष्फ लत्वाच्च, तदापि न तस्य जिज्ञास्यत्वम् ||
उक्तञ्च वाचस्पतिमिश्रै: || तथा हि :- यदसंदिग्धप्रयोजनं न
तत्प्रेक्षावत्प्रपित्सागोचर:
यथा समनस्केन्द्रियसंनिकृष्ट: स्फीतालोक मध्यवर्ती घट: करटदन्ता
वा इत्यादि (भामतीव्याख्यानम्-p 2) ||
तथा च यत्र यत्र जिज्ञास्यत्वं तत्र तत्र संदिग्धत्व, सप्रयोजनत्वे इति
व्याप्तिर्लोके दृश्यते || यथा “ अथाsतो धर्मजिज्ञासा ” इत्यत्र धर्मजिज्ञास्यत्वं वर्तते || तत्र संदिग्धत्वमपि वर्तते ||
अनुष्ठानद्वारा सप्रयोजनमप्यास्ति || अत्र जिज्ञास्यत्वमुपलभ्यते परन्तु संदिग्धत्वं
च नास्ति || “अहं, अहं वा नवा” इति न कैरपि
संदिह्यते || नाsपि
विपर्यस्यते अहं नाsहमिति ||
अत: व्यापकीभूत संदिग्धत्व, सप्रयोज नत्वयोरभावात् व्याप्यस्य जिज्ञास्यत्वस्याsभाव: || तथा च ब्रह्मजिज्ञासा निष्प्रयोजना इति
प्राप्ते पूर्वपक्षे, सिद्धान्तस्त्वत्र संग्रहेण प्रतिपाद्यते || तथा हि:-
आत्मा नाम देहेन्द्रियादिविलक्षण: || सर्वोsपि जन: “अहं स्थूल:” “अहं कृश:” “अहं शृणोमि” इत्येवं
देहेन्द्रियतादात्म्येनैव देहेन्द्रिय धर्मविशिष्टमेव आत्मानं जानाति, न तु देहेन्द्रियातीतं
तद्धर्मरहितम् || तादृशे आत्मनि सर्वेषामपि विदुषां संशय: वर्तते एव || विपर्ययोsपि दृश्यते कर्तृत्व,भोक्तृत्वादिना || अत: तद्रहिततत्त्वेन
आत्मज्ञानार्थं ब्रह्म जिज्ञासा अवश्यं कर्तव्यैव || तथा च तस्मिन्नात्मनि जिज्ञास्यत्वं वर्तते || संदिग्धत्वसप्रयोजनत्वेsपि वर्तेते || प्रयोजनं च महत् कैवल्यम् इति “
ब्रह्मविदाप्नोति परम् ” (तै.उ-2-1-1) इत्यादि श्रुतिभि: प्रतिपाद्यमानं स्पष्टमवगम्यते
||
किञ्च लोके सर्वैरपि आत्मास्तित्वमनुभूयते अस्मत्प्रत्ययविषयत्वादात्मन:
|| तदुक्तं भगवत्पादै: “ सर्वोऽपि ह्यात्मास्तित्वं
प्रत्येति न नाsहमस्मीति
इत्यादि || अपि च आत्मन: निराकरणमसाध्यमेव
य एव हि निराकर्ता तस्यैवाssत्मत्वादिति”
भगवत्पाद वचनात् || किन्तु अनाद्यविद्यया आत्मन:
स्वरूपं तिरोहितम् || जडात्मकेषु देहेन्द्रियादिषु आत्माबुद्धि: द्रढीभूत: || एवमात्मा
भासमानोsपि न स्वरूपेण भानं तस्य
|| अयमेवाभिप्राय:
“ अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत्,
भानेsप्यभानं भानस्य प्रतिबन्धेन युज्यते ”
इति श्लोके सदृष्टान्तं प्रदर्शित: विद्यारण्य श्रीचरणै: (पञ्चदशी-1-12)||
एवञ्च आत्मन: भानत्वेsपि
स्पष्टरूपेण तत्स्वरुपस्यानवगमनात् दार्शनिकेषु आत्मस्वरुपविषये विविधा:
अभिप्राया: संदृश्यन्ते || तेषाञ्च मतानि “ देहामात्रं चैतन्यविशिष्टमात्मेति
प्राकृता: जना: लौकायतिकाश्च प्रतिपन्ना:” इत्यादिवाक्यै: संग्रहेण भगवत्पादै: प्रदर्शितानि
वर्तन्ते (ब्रह्मसूत्रशांकरभाष्यम् p -88-90) ||
अन्ते वेदान्तमतमपि प्रदर्शितं दृश्यते || तेषां पक्षान्तराणां
प्रपञ्चो निरासश्च स्वकृत विवरणोपन्यासे एव विस्तरेण प्रदर्शित: इति न पुन:
प्रादर्शि रत्नप्रभायाम् || तदुक्तं स्वयं ग्रन्थकारै: || विप्रतिपत्तीनां प्रपञ्चो
निरासश्च विवरणोपन्यासेन दर्शित: सुखबोधाय इतीहोपरम्यते (रत्नप्रभा -90-91) ||
रत्नप्रभायान्तु तेषां सिद्धान्तोपबलकानि प्रमाण
वाक्यान्येव संग्रहेण प्रदर्शितानि || रत्नप्रबाव्याख्याने पूर्णानन्दीये मतानाञ्च
तेषां प्रपञ्चनं, निराकरणं विवरणोपन्यासोक्तदिशा प्रदर्शितं दृश्यते || तदुक्तम् :
“तासां विप्रतिपत्तीनां सुखबोधार्थमेव हि
प्रपञ्चो हि निरासश्च
संग्रहेणोच्यते मया”
अत्रास्माभिस्तु पूर्णानन्दीयमनुसृत्यैव पक्षान्तराणां प्रपञ्चो
निराकरणं च क्रियते प्रदर्श्यते च वेदान्तमतं सिद्धान्तरूपेण ||
...अनुवर्तते .....
No comments:
Post a Comment