A
Study of Ratnaprabha-Part-27
{Ratnaprabhaa vimarsha}
रत्नप्रभाविमर्श:
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO,
Bhasha praveena , Vedanta vidya Praveena,
M A (Sanskrit), M A (Telugu), M A (Philosophy)
& Ph D (Sanskrit)
पञ्चमोऽध्यायः
-: जन्माद्यधिकरणम् :-
ब्रह्मण:स्वरुप-तटस्थलक्षणनिरूपणम्
सर्वानर्थरुपसंसारनिवृत्तये
ब्रह्मजिज्ञासा कर्तव्या इति पूर्वाधिकरणे निरुपितम् || लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरिति नियमेन लक्षणादिकं विना तस्य ब्रह्मण: जिज्ञास्यत्वं नोपपद्यते इति
तन्निरुपयितुमिदं जिज्ञासाधिकरणमारब्धम् ||
अधिकरणेsस्मिन् ब्रह्मण: स्वरुपतटस्थलक्षणे प्रदर्शिते || अस्याधिकरणस्याधारभूतं सूत्रं ‘जन्माद्यस्य यत:’ इति || अस्य जगत: जन्मस्थितिभङ्ग: यस्मात् तद् ब्रह्मेति
सूत्रसारांश: ||
“यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति
तद्विजिज्ञासस्व तद्ब्रहमेति” (तैत्तिरीय -3.1) इति वाक्यमधिकरणस्याsस्य विषय: || तद्वाक्यं ब्रह्मण:
लक्षणं निर्वक्ति वा न वेति संशय: || जन्मादय: जगतो
धर्मा: अत: तै: ब्रह्मण: संबन्ध: कथम्?
अपि च
सत्यादिभिन्नपदै: वाच्यं तत् ब्रह्म कथमखण्डं भवति? अत: ब्रह्मण: स्वरूपतटस्थलक्षणे द्वेsपि न सिध्यत: इति पूर्वपक्ष: ||
अत्र
सिद्धान्तस्तु तावदयम् || यद्यपि जन्मादीनि
जगतो लक्षणानि तथापि तेषां कारणं ब्रह्मैव || यो भुजङ्ग: स: स्रगिति न्यायेन यत् जगत्कारणं तद् ब्रह्मेति
बाधसामानाधिकरण्यात् तटस्थलक्षणं
सिद्ध्यति || एवमेव सत्यज्ञानादीनि यद्यपि
भिन्नार्थकानि तथाsपि तेषां पर्यवसानं ब्रह्मण्येव || एतेन ब्रह्मण: स्वरू पलक्षणं सिद्ध्यति || अपि च प्रत्यक्षादिप्रमाणै: प्रतिपाद्यं ब्रह्म जगत: अभिन्ननिमित्तोपादानकारणं भवति || एवञ्च लक्षणप्रतिपाद्यत्वात् ब्रह्मण:
जिज्ञास्यत्वमुपपन्नम् || लक्षणं द्विविधं
स्वरुपलक्षणं तटस्थलक्षणञ्चेति || स्वरूपमेव लक्षणं
स्वरुपलक्षणम् || (वेदान्तपरिभाषा-p-125) यथा सत्यज्ञानादिकं ब्रह्मण: स्वरुपलक्षणम् ||
यावल्लक्ष्यकालमनवस्थितत्वे
सति तद्व्यावर्तकत्वं तटस्थलक्षणम् (वेदान्तपरिभाषा-p-126)|| यथा गन्धवत्वं पृथिवीलक्षणम् || महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु गन्धाभावात् , प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् ||
लोके सर्वथा
अज्ञायमानं वस्तु प्रथमत: तटस्थलक्षणेन आपातत: , अनन्तरं स्वरुपलक्षणेन च प्रतिपाद्यते || यथा :- शाखाग्रे चन्द्र: प्रकृष्टप्रकाशश्चन्द्र: इत्यादिरीत्या || तथा च वस्तुन: सामान्यज्ञानं तटस्थलक्षणेन , विशेषज्ञानं स्वरुपलक्षनेनेति विज्ञेयम् ||
अत्र
किञ्चिद्वक्तव्यमस्ति || “ अथाsतो ब्रह्मजिज्ञासा
” इत्यत्र प्रतिपादितं ब्रह्म निर्गुणं वा
सगुणं वेति || निर्गुणं चेन्निर्गुणस्य ब्रह्मण:
उत्तरसूत्रोक्तं जगज्जन्मस्थितिलयकारणत्वं न घटते || तद्घटनार्थं सगुणमेवेति चेत् सगुण ब्रह्मसाक्षात्कारेण मुक्तिर्न सिध्यति || अत: प्रथमसूत्रेण निर्गुणं द्वितीयसूत्रेण सगुणञ्च
प्रतिपादितमिति वक्तव्यम् || तथा च सूत्रयो:
वैरुप्यप्रसंग: एकवाक्यताभङ्गश्च ||
तत्रेदं समाधानम् || निर्गुणमेव ब्रह्म प्रथमसूत्रेणोक्तम् | अस्यैव द्वितीयसूत्रेण लक्षणमुक्तम् || तच्च लक्षणं जगज्जन्म स्थितिलयकारणत्वं तटस्थलक्षणमेवेति न
कोsपि विरोध: || यथा:- काकवद्देवदत्तगृहम् इत्यत्र
काक: देवदत्तगृहसूचकं तथा जगज्जन्मस्थितिलयकारणत्वमपि ब्रह्मण: इति तटस्थलक्षणम् || अतो न कोsपि दोष: || अत्र सूत्रे
जन्मादिपदेन ब्रह्मण: तटस्थ लक्षणमभिहितम् || जन्मादि इत्यत्र
जन्मोत्पत्तिरादिरस्येति तद्गुणसंविज्ञानो बहुव्रीहि रिति भाष्यकारा: (ब्र.सू.शां.भा-page-97)
तथा हि:- बहुव्रीहि:
द्विविध: तद्गुणसंविज्ञानोs तद्गुणसंविज्ञानश्चेति| तस्य समासस्य गुणानामवयवानामप्यन्यपदार्थवत्
क्रियान्वयार्थं विज्ञाते
तद्गुणसंविज्ञानबहुव्रीहि: || तद्यथा :- लम्बकर्णो
देवदत्त इति || अत्र देवदत्तैकदेशमेव विशेषणं कृत्वा
देवदत्तो बोध्यते इति लक्षणसमन्वय: || अपरस्त्वतद्गुण संविज्ञानो बहुव्रीहि: || तद्यथा :- चित्रगुमानय इत्यत्र चित्रा: गाव: यस्य स: चित्रगु: (देवदत्त:)
इत्युक्ते न चित्रगवां समासार्थत्वं किन्तु देवदत्तस्येत्ययमतद्गुणसंविज्ञानो
बहुव्रीहि: || प्रकृते तु जन्मादिपदस्य तद्गुण संविज्ञानबहुव्रीहित्वकथनेन
जगत: जन्म स्थितिलया: यस्मात् तद्
ब्रह्मेति जगज्जन्मादिकारणत्वं ब्रह्मण:
तटस्थ लक्षणम् || अत्र सृष्टे: प्राक् महाप्रलयानन्तरं च
ब्रह्मण: जगत्कारणत्वाभावात् कादाचित्कत्वे सति व्यावर्तकत्वं ब्रह्मणि संभवतीति लक्षणसमन्वय: ||
तथा च जन्मादिकं
प्रपञ्चनिष्ठं न तु ब्रह्मनिष्ठमिति प्रपञ्चो ब्रह्मणि कल्पित: तस्य
प्रतियोगिकारणमपि ब्रह्मणि कल्पितमिति नेदं ब्रह्मण: स्वरुपलक्षणम् ||
अद्वैते ब्रह्मण:
जगदभिन्ननिमित्तोपादानकारणत्वमुक्तम् || अत्र कुलालादिदृष्टान्तेन
उपादानकारणत्वं, निमित्तकारणत्वञ्चैकस्मिन्न संभवतीति वदन्तं तार्किकं
सुखादिदृष्टान्तप्रदर्शनेन समादधति रत्नप्रभाकारा: (रत्नप्रभा–page-96) तत्रेदं विवरणम् || सुखं प्रति अदृष्टद्वारा निमित्तत्वं , समवायिकारणत्वं च आत्मनि दृष्टम् || तस्मादभिन्ननिमित्तोपादानकं सुखमिति दृष्टान्तोपपत्ति: ||
अत्र ‘आदि’ पदेन कर्मसंयोगौ
गृह्येते इति पूर्णानन्द: (पूर्णानन्दीयम्-page-96 ) || तथाहि :- स्वकृतयागादिकं प्रति
कर्तृत्वमुपादानत्वञ्च पुरुषे दृश्यते तस्मादभिन्ननिमित्तोपादानकं कर्म || एवमेव घटाकाशसंयोगं प्रति निमित्तत्वं समवायि
कारणत्वञ्चाकाशे अस्तीत्यभिन्ननिमित्तो पादानक: संयोग: इत्यादि ||
किञ्च
पुरुषाभ्यूहमात्रस्य तर्कस्यातीन्द्रियार्थे स्वातन्त्र्यायोगात् तत्र श्रुतिरेवाश्रयणीया || श्रुतिस्तु “ यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति ” इत्यादिवाक्यैः ऊर्णनाभिदृष्टान्तेन
च ब्रह्मण: जगदभिन्ननिमित्तोपादानकारणत्वं प्रदर्शयति ||
...अनुवर्तते...
No comments:
Post a Comment