A
Study of Ratnaprabha-Part-28
{Ratnaprabhaa vimarsha}
रत्नप्रभाविमर्श:
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO
पञ्चमोऽध्यायः
-: जन्माद्यधिकरणम् :-
...गताङ्कादग्रे...
सूत्रगत “अस्य” पदस्य विवरणम्
(ब्रह्मण:
जगत्कारणत्वम्)
सूत्रगत “अस्य“ पदेन जगन्निर्दिश्यते || तदुक्तं भगवत्पादै:
“अस्य इति प्रत्यक्षादि संनिधापितस्य
धर्मिण: इदमा निर्देश: इति || (ब्र.सू.शां.भा-page-96,97) अत्र कारणस्य ब्रह्मण: सर्वज्ञत्वं निरूपयितुं
कार्यस्य जगत: “नामरूपाभ्याम्” इत्यादि विशेषणानि प्रदर्शितानि भगवत्पादै: || अत्र नामरुपाभ्यां व्याकृतस्य इत्यत्र “ इत्थंभावे तृतीया ” इत्युक्तं
रत्नप्रभाकारै: || तथा च नामरुपाभिन्नतया व्यक्तीकृतस्येति
तेषामाशय:|| अत्र चाsभियुक्तोक्ति: || तथा हि :-
“अस्ति भाति
प्रियं रूपं नाम इत्यंशपञ्चकम्
आद्यत्रयं ब्रह्मरूपं
जगद्रूपं ततो द्वयम्” इति ||
यथा कुम्भकार:
प्रथमं कुम्भशब्दाभेदेन विकल्पितं पृथुबुध्नोदराकारं स्वरूपं बुद्धावालिख्य
तदात्मना कुम्भं बहि: प्रकटयति तथा परमकारणमपि स्वेक्षितं नामरूपात्मना
व्याकरोतीति ब्रह्मण: जगत्कारणत्वम् ||
तत्र
सांख्या: प्रधानात्, बौद्धा: शून्यात्, जगत: उत्पत्तिमभ्युपगच्छन्ति || तन्न संभवति आद्यकार्यस्य चेतनजन्यत्वात् अचेतनात्त्प्रधानात्
शून्याद्वा तस्य संभवो नोपपद्यते || शून्यवादिनो बौद्धा: शून्यात् जगत: उत्पत्तिं समर्थयियुं
केशोण्ड्रकभ्रान्तिमुदाहरन्ति || तेषामयमाशय: || करसंमृदितलोचनरश्मि प्रसरे सति
केशपिण्डज्ञानं जायते स एव केशोण्ड्रकभ्रम
इति व्यवह्रियते ||
न हि तत्र
किमप्यधिष्ठानं भासते इति सर्वत्र आरोपेSधिष्ठानापेक्षा न
दृश्यते इति || तत्र इदं समाधानम् || शून्ये केशोण्ड्रकभ्रान्ति: न भवति तेजस्येव तस्य भ्रान्ति:
न तु शून्ये इति तत्र तेजोधिष्ठानमनिवार्यमेव
भवति ||
किञ्च सकलगुणविशिष्टस्य जगत:
उत्पत्ति: शून्यादेवेति कथने परस्परव्याघात: || अतो
न समीचीन: तेषामभिप्राय: ||
लौकायतिकास्तु स्वभावत: जगत:
उत्पत्तिमभ्युपगच्छन्ति || तैरुक्तम् :-
“अग्निरुष्णो
जलं शीतं समस्पर्शस्तथाsनिल:
केनेदं
चित्रतं येन स्वभावात्तद्व्यवस्थिति: || इति || नैतत्साधु || स्वभावादेव जगत:
उत्पत्तिरित्यभ्युपगम्यमाने
“प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य” इति विशेषणं जगत: नोपपद्यते || तथा हि:- स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देश:, देहपातादूर्ध्वं काल:
उतारायणमरणादि निमित्तञ्च प्रतिनियतम् || (रत्नप्रभा p.101.)
तथा च जगदिदं
व्यवस्थितदेशकालनिमित्तक्रियाफलानामाश्रय: इति तस्योत्पत्तिं केवलस्वभावान्न
संभावयितुं शक्यते ||
अत्रोक्तं
विशेषेण भामत्याम् :- केचित्खलु प्रतिनियतदेशोत्पादा: यथा कृष्णमृगादय: || केचित् प्रतिनियतकालोत्पादा: यथा कोकिलारावादय: || केचित्प्रतिनियतनिमित्ता: || यथा नवाम्बुदध्याननिमित्ता: बलाकागर्भादाय: || केचित्प्रतिनियतक्रिया: यथा ब्राह्मणानां
याजनादयो नेतरेषाम् || एवं प्रतिनियतफला: || यथा केचित्सुखिन: केचिद्दुखिन: य एव सुखिन: त एव
कदाचिद्दुखिन: || सर्वमेतदाकस्मिकापरनाम्नि
यादृच्छिकत्वे च स्वाभाविकत्वे चाsसर्वशक्ति कर्तृकत्वे च
न घटते || परिमितज्ञानशक्तिभि:
ग्रहलोकपालादिभि: ज्ञातुं कर्तुं चाsशक्यत्वात् “ इत्यदि || अपि च
स्वभाववादं निराकुर्वद्भि: रत्नप्रभाकारैरेवमुक्तम् || तथा हि :- किं नाम स्वभाव: ? स्वयमेव स्वस्य
हेतु: ? उत कारणानपेक्षत्वम्
? आद्ये
आत्माश्रय: द्वितीये कार्यस्य कारणानपेक्षत्वं न संभवति || तथात्वे धान्यार्थिनां भूविशेषे वर्षाकालादिक
धान्यारोपणादिकं विनापि बीजोत्पत्ति: जायेत || तथा न संभवतीति स्वभावादेव जगत: उत्पत्तिरिति
वक्तुं न युक्तम् इति ||
हैरण्यगर्भवादिनस्तु हिरण्यगर्भादेव
सृष्टिमभ्युपगच्छन्ति
|| तदपि न समीचीनम् || हिरण्यगर्भस्यापि जातस्य पतितत्वेन न तस्य
जगत्कारणत्वम् || उक्तञ्च “हिरण्यगर्भं
पश्यत जायमानम्” ( श्वे.उ-4-12 )
इत्यादि || तथा च
श्रुत्युक्त: सूत्रात्मा मुख्यप्राण: समष्टि लिङ्गशरीराभिमानी प्रथमो जीव: हिरण्यगर्भ:
इति वेदान्तशास्त्रे प्रसिद्ध: || किञ्च मनसाप्यचिन्त्यरचनारुपस्येति जगद्विशेषणं हिरण्यगर्भसृष्टिवादं
निराकरोति || अत्र विशेषेणोक्तं
भामत्याम् || एकस्या: अपि
शरीर रचनाया: रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनाया: किमङ्ग पुन: कर्तुमित्यादि (
भामती-p.48) ||
तथा च एतादृशविशिष्टगुणवत:
जगत: सृष्टि: हिरण्यगर्भात्संभावयितुं नोपपन्नम् ||
तार्किकास्तु ईश्वराज्जगत:
सृष्टिमभ्युपगच्छन्ति|| ते तु क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वाद्घटवदित्यनुमानेनेश्वरं साधयन्ति || ततोsत्र श्रुतेरावश्यकता नास्तीति तेषामाशय: || अपि
चैतद्व्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेन स्वतन्त्रमिति अनुमानस्य
स्वातन्त्र्यं मन्यन्ते || अत्रानुमानस्याभासत्वं ‘मन्यन्ते’ इति पदेन भाष्यकारैरिति
रत्नप्रभाकारा: (रत्नप्रभा-p-104) || अत्रानुमानस्य आभासत्वं तैरेव निरुपितम् ||
तथाहि :- अङ्कुरादौ
तावज्जीव:
कर्ता न भवति, जीवाद्भिन्नस्य सर्वस्याचेतनत्वात् कर्ता नास्त्येवेति व्यतिरेकसिद्धि:||
तथा च यत्कार्यं तत्सकर्तृकमिति व्याप्तिज्ञानमपि न सिध्यति || एवमेव “कर्ता
सर्वज्ञ:जगत्कारणत्वात्” इत्यत्राsपि बाध: संभवति ||
तथा हि :- ज्ञानं
द्विविधं जन्यं नित्यं चेति || आद्ये ब्रह्मणोsशरीरत्वात् तस्य जन्यज्ञानं नास्ति || द्वितीये यद्
ज्ञानं तन्मनोजन्यमिति न्यायेन तस्य नित्यत्वञ्च नास्ति इति ब्रह्मण: सर्वज्ञत्वसिद्धिविषये
इदं बाधकं भवतीति न युक्त्या ब्रह्मण: सर्वज्ञत्वम् || तस्मादतीन्द्रियार्थे श्रुरेव
शरणम् || श्रुत्यर्थसंभावनार्थत्वेनाsनुमानं युक्तिमात्रं, न स्वातन्त्र्यमिति भाव: || ब्रह्मण: जगत्कारणत्वं,
सर्वज्ञत्वं च “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति
तद्विजिज्ञासस्व तद्ब्रह्मेति (तै.उ - 3-1) “ य: सर्वज्ञ: सर्ववित्” (मु.उ-1-1-10)
इत्याद्यबाधितश्रुतिभिरवगन्तव्यम्||
--अनुवर्तते --
No comments:
Post a Comment